भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 435 of 639
Read in context| देवादेर्ज्ञानेऽधिकारः ] | हिन्दीसहितभामतीसंवलितम् | ४१७ |
|---|
भावो देवादीनामधिकारस्य ॥ ३२ ॥
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
तुशब्दः पूर्वपक्षं व्यावर्तयति । बादरायणस्त्वाचार्यो भावमधिकारस्य देवादीनामपि मन्यते । यद्यपि मध्वादिविद्यासु देवतादिव्यामित्रास्वसंभवोऽधिकारस्य, तथाप्यस्ति हि शुद्धायां ब्रह्मविद्यायां संभवः । अर्थित्वसामर्थ्याप्रतिषेधाद्यपेक्षत्वादधिकारस्य । न च क्वचिदसंभव इत्येतावता यत्र संभवस्तत्राप्यधिकारोऽपोद्येत । मनुष्याणामपि न सर्वेषां ब्राह्मणादीनां सर्वेषु राजसूयादिष्वधिकारः संभवति । तत्र यो न्यायः सोऽत्रापि भविष्यति । ब्रह्मविद्यां च प्रकृत्य भवति दर्शनं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in