भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 434 of 639
Read in context| ४१६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. ३२ |
|---|
न्तरं मूलमाकाङ्क्षति। अर्थवादा अपि विधिनेकवाक्यत्वात्स्तुत्यर्थाः सन्तो न पार्थग्-
र्थ्येन देवादीनां विग्रहादिसद्भावे कारणभावं प्रतिपद्यन्ते। मन्त्रा अपि श्रुत्यादिविनि-
युक्ताः प्रयोगसमवायिनोऽभिधानार्था न कस्यचिदर्थस्य प्रमाणमित्याचक्षते। तस्माद्-
भामती
अपि इति ॐ । विध्युद्देशेनैकवाक्यतामापद्यमाना अर्थवादा विधिविषयप्राशस्त्यलक्षणापरा न स्वार्थे प्रमाणं भवितुमर्हन्ति । 'यत्परः शब्दः स शब्दार्थ' इति हि शाब्दन्यायविदः, प्रमाणान्तरेण तु यत्र स्वार्थोऽपि सम्पद्यते यथा वायोः क्षेपिष्ठत्वम् । तत्र प्रमाणान्तरवशात्सोऽभ्युपेयते न तु शब्दसामर्थ्यात् । यत्र तु न प्रमाणान्तरमस्ति यथा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in