भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 432 of 639
Read in context४१४ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. ३२
ज्योतिषि भावाच्च ॥ ३२ ॥
यदिदं ज्योतिर्मण्डलं द्युस्थानमहोरात्राभ्यां बम्भ्रमज्जगद्वभासयति, तस्मिन्नादित्यादयो देवतात्ववचनाः शब्दाः प्रयुज्यन्ते । लोकप्रसिद्धेर्वाक्यशेषप्रसिद्धेश्च । न च ज्योतिर्मण्डलस्य हृदयादिना विग्रहेण चेतनतयाऽर्थित्वादिना वा योगोऽवगन्तुं शक्यते, मृदादिवदचेतनत्वावगमात् । एतेनाग्न्यादयो व्याख्याताः । स्यादेतत्, —
भामती
यद्युच्येत नाविशेषेण सर्वेषां देवादीनां सर्वासु ब्रह्मविद्यास्वधिकारः किन्तु यथासम्भवमिति । तत्रेदमभ्युपतिष्ठते ज्योतिषि भावाच्च लौकिको ह्यादित्यादिशब्दप्रयोगप्रत्ययो ज्योतिर्मण्डलादिषु दृष्टो न चैतेषामस्ति चैतन्यं,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in