भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 431 of 639
Read in contextदेवताया विग्रहादिमत्त्वम् ] हिन्दीसहितभामतीसंवलितम् ४१३
एतद्देवामृतं वेद वसूनामेवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति' इत्यादिना वस्वाद्युपजीव्यान्यमृतानि विजानतां वस्वादिमहिमप्राप्तिं दर्शयति। वस्वादयस्तु कान्यान्यन्त्वस्वादीनमृतोपजीविनो विजानीयुः ? कं वाऽन्यं वस्वादिमहिमानं प्रेप्स्युः ? तथा अग्निः पादो वायुः पाद आदित्यः पादो दिशः पादः' ( छा० ३।१८।२ ), 'वायुर्वाव संवर्गः' (छा० ४।३।१) 'आदित्यो ब्रह्मेत्यादेशः' ( छा० ३।१९।१ ) इत्यादिषु देवतात्मोपासनेषु न तेषामेव देवतात्मनामधिकारः संभवति । तथा 'इमावेव गोतमभरद्वाजौ चायमेव गोतमोऽयं भरद्वाजः ( बृ० २।२।४ ) इत्यादिष्वृषिसंबन्धेषूपासनेषु न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in