भैषज्य रत्नावली (गोविन्ददास सेन - सान्वय भाषा टीका सहित)
Bhaishajya Ratnavali Hindi
by कविराज गोविन्ददास सेन (टीकाकार: वैद्य शंकरलाल)
Source: Bhaishajya Ratnavali with Hindi Translation by Vaidya Shankar Lal (1942) (origin)
Public domain in India · Report a copyright issue
Page 639 of 1416
Read in contextचिकित्सा ] भाषाटीकासहिता । ६०७
अनन्तमूल, धतूरेके बीज, वरनाकी जड़, बैंगन, बडी कटेरी, चीता, पीपलामूल, मुलहठी, सेंधानमक, खिरेंटी, सोया, देवदारु, रायसन, गजपीपल, नागरमोथा, कचूर, लाख, प्रसारणी और लालचन्दन इनके एकएक कर्ष कल्कको डालकर मन्दमन्द अग्निके द्वारा शनैः शनैः तैलको पकावे ॥ ८३-८७ ॥
वातिकं पैत्तिकं चैव श्लैष्मिकं सान्निपातिकम् ।
उन्मादं सकलं हन्ति वृक्षमिन्द्राशनिर्यथा ॥ ८८ ॥
सर्ववातविकारघ्नमेकाङ्गं सर्वसंग्रहम् ।
अपस्मारे ज्वरे कासे हनुस्तम्भार्दितेऽशुभे ॥ ८९ ॥
भूतोन्मादे क्रोधोन्मादे ऊर्ध्वजत्रुगदेऽपि च ।
तैलमेतत्प्रयोक्तव्यं शिवया निर्मितं शुभम् ॥ ९० ॥
इस प्रकार सिद्ध कियाहुआ यह तैल वातज, कफज और सन्निपातज इन सर्वप्रकारके उन्माद सम्पूर्ण वातरोग और एकाङ्ग व सर्वाङ्गकी पीडा इन सबको इस प्रकार नष्ट करदेता है जैसे वज्र वृक्षोंको। इसको अपस्मार, ज्वर, खाँसी, हनुस्तम्भ, क्रोधजन्य उन्माद और ऊर्ध्वजत्रु रोगोंमें भी प्रयोग करना चाहिये । इस उत्तम तैलको श्रीपार्वतीजीने निर्माण किया है ॥ ८८-९० ॥
तैलं नारायणं वापि महानारायणं तथा ।
हितमत्र प्रयोक्तव्यमिति चक्रेण भाषितम् ॥ ९१ ॥
उन्मादरोगमें नारायणतैल अथवा महानारायणतैलका प्रयोग करना चाहिये यह चक्रदत्तका मत है ॥ ९१ ॥
उन्मादरोगमें पथ्य ।
आश्वासनत्रासनबन्धनानि भयानि दानानि च हर्षणानि ।
धूपो दमो विस्मरणं प्रदेहः शिराव्यधः संशमनं च सेकः ॥ ९२
आश्चर्य्यकर्म्माणि च धूमपानं धीधैर्य्यसत्त्वात्मनिवेदनानि ।
अभ्यञ्जनं स्नापनमासनं च निद्रा सुशीतान्यनुलेपनानि ॥ ९३
गोधूममुद्गारुणशालयश्च धारोष्णदुग्धं शतधौतसर्पिः ।
नवीनभूतं च पुरातनं च कूर्मामिषं धन्वरसा रसालम् ॥ ९४ ॥
पुराणकूष्माण्डफलं पटोलं ब्राह्मीदलं वास्तुकतण्डुलीयम् ।
खराश्वमूत्रं गगनाम्बु पथ्या सुवर्णचूर्णानि च नारिकेलम् ॥
द्राक्षा कपित्थं पनसंच वैद्यैर्विधेयमुन्मादगदेषु पथ्यम् ॥ ९५ ॥