Skip to content
SarvaKosh
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

by महर्षि ऐतरेय महिदास

Source: Aitareya Aranyakam with Vedic Accents & Commentary (origin)

DevanagariHindipublished304 pages

Page 289 of 304

Read in context
Page 289

२८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रपाठमारण्यके-

प्रदर्श्यते। इन्द्रः सहस्राक्षः। कर्म दर्शपूर्णमासादिकम्। ❊अक्षरमकारादिकम्। अमृतं पीयूषम्। व्योमाऽऽकाशः। ऋतं मनसा यथावस्तु चिन्तनम्। सत्यं वाचा यथावस्त्वभिधानम्। विजिग्यानं विजयशीलं राजादिकम्। विवाचनं विशेषेण वक्तुं समर्थम्। वाचः शब्देकालस्यान्तः पर्यवसानभूमिः। स चान्तो विभुर्वक्तव्यस्यार्थाभिवादने समर्थः। सर्वस्मात्प्रकाशजातादुत्तरं ज्योतिरादित्यरूपम्। ऊधो गवां स्तनसमूहः। अप्रतिवादो विद्वत्कथायां प्रतिवाद्युक्तिराहित्यम्। यस्य यस्य वस्तुनो यद्यत्पूर्व कारणरूपं तत्सर्वरूपम्। परागवार्गुत्तमाधमरूपा या वागस्ति तद्रूपम्। समु² नाना-³विधविमृद्भिः सहितं सलिलं वृष्ट्युदकं धेनु पिन्वति, यथा धेनुः क्षीरप्रदानेन प्रीणयति तद्वद्वृष्ट्युदकं सस्यनिष्पादनेन प्रीणयति। चक्षुःश्रोत्रप्राणा इन्द्रियवायुरूपाः। लोके यद्व्यवहारजातं सत्यसंमितमनृतोक्तिरहितं वाक्प्रभूतं शब्दैः संपूर्ण मनसो विभूतमर्थपर्यालोचकस्य मनःसंबन्धि भूत्वा विशेषेण व्यवस्थितं तादृशं वाग्व्यवहारजातं सर्वम्। हृदयौग्रं हृदये मनसि रँच्यमानं⁴ युद्धादिकमुग्रं कर्म। ब्राह्मणभर्तृ ब्राह्मणा भर्तारः पोषका यस्याध्ययनादेस्तद्ब्राह्मणभर्तृकम्। अन्नशुभे अन्नं व्रीहियवादिकं शुभं विवाहादिकम्। वर्षपवित्रं वृष्ट्युदकेन प्रक्षालिततया शुद्धं भूप्रदेशजातम्। गोभगं गवां संबन्धि शुद्धिहेतुत्वादिरूपं सौभाग्यजातम्। पृथिव्युपरं पृथिव्यां निखन्यमानं यूपस्य मूलम्। वरुणप्रत्वितमं वृक्षाधिपतिना वरुणेन तत्सहकारिणा ❊वायुना चातिशयनेतं प्राप्तम्। इततममित्यस्मिन्नर्थे तकार एको लुप्तः। तपस्तनु तपसा कृशं मुनिशरीरजातम्। तदेव वृष्टिवायूपद्रवसहिष्णुत्वादरुणवायुभ्यामतिशयेन प्राप्तमित्युच्यते। इन्द्रज्येष्ठम्। तदेव मुनिशरीरजातमित्रादप्यधिकं हिरण्यगर्भादिपदसाधकत्वात्। सहस्रधारमयुताक्षरम्। अमृतं दुहानम्। यदा यज्ञेषु देवार्थं गौर्दुह्यते तदा तस्य क्षीरस्य धारा देवानामग्रे सहस्रसंख्याकाः संपद्यन्ते। अत एव दोहनप्रकरणे—“वसूनां पवित्रमसि सहस्रधारम्” इति मँत्रा⁵ आम्नाताः। तत्र दोहनप्रकरणे समाम्नातेषु यान्यक्षराणि विद्यन्ते तान्ययुतसंख्याकानि बहुलानीत्यर्थः। बहुधाराभिर्बहुक्षरैश्चोपेतं यदमृतं क्षीरं तद्दुहानं गोकुलम्। इत्थं सर्वमुदाहृत्य प्रदर्शितम्।

अथ द्वितीयं मन्त्रमाह—

एतास्त उक्थ भूतय एता वाचो विभूतयः।
ताभिर्म इह धुक्ष्वामृतस्य श्रियं महीम्, इति।


* अक्षितशब्दस्य व्याख्यानमेतत्। + मूले ह्रस्वश्छान्दसः।


१ ग. ˚ब्दजातस्यां। २ ग. ˚वं प˚। ३ क. ख. घ. ङ. ˚विप्रुषै˚। ४ क. ख. घ. ङ. रिध्यमानं। ५ क. ख. घ. ङ. मन्त्र।