युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 23, कुल 278 में से
संदर्भ में पढ़ें( ११० )
सारात् कल्पतरुरयं पश्चादङ्कित इति । कामन्दकस्तु सर्वथा कौटि-
लीयमर्थशास्त्रं स्मारं स्मारं नीतिसारमिमं लिलेख ।
प्राचीनलेखमालायाम्—४६ लेखः । (४८)—मालवमहीपाल-
प्रशस्तिः । प्रथमे भागे १६७—१६८ पृष्ठे ।
(१) जातस्तस्माद्वैरिसिंहोऽन्य नाम्ना,
लोको ब्रूते वज्रट स्वामिनं यम् ।
शत्रोर्वर्गं धारयासेर्निहत्य ;
श्रीमद्वारा सूचिता येन राज्ञा ॥
(२) तस्यानुजो निर्जित हूनराजः,
श्रीसिन्धुराजो विजयार्जितश्रीः ।
श्रीभोजराजोऽजनि येन रत्नम् ;
नरोत्तमाकल्प ( कम्प ? ) रुद्वितीयम् ॥
(३) साधितं विहितं दत्तं ज्ञातं तद् यन्न केनचित् ।
किमन्यत् कविराजस्य श्रीभोजस्य प्रशस्यते ॥
६—७ पृष्ठे, प्राचीन लेखमालायाम् ( तृतीयलेखः ) ।
धारानगराधिपति सुप्रसिद्ध भोज महीपतेर्वंश्यस्यार्जुनवर्मदेवस्य
दानपत्रम् ।
परमारकुलोत्तंसः कंसजिन्महिमातृपः ।
श्रीभोजदेव इत्यासीन्नासीराक्रान्त-भूतलः ॥
सम्बत् १२७२ भाद्रपद सुदि १५ बुधे ।
प्राचीन लेखमालायां—द्वितीय लेखः ४-५ पृष्ठे । धारानगरा-
धिपतेः सुप्रसिद्धस्य * भोज नरेन्द्रस्य दानपत्रम् ।
- श्रीभोजदेवस्य अतिवृद्धप्रपितामहः कृष्णराजः, वृद्धप्रपितामहः वैरीसिंहः,
प्रपितामहः सीयकदेवः, वाक्पतिराजः पितामहः, पिता च श्रीसिन्धु ( ल ) राजः । सिन्धु-
राज पर्यन्तमुज्जयिन्यां राजधान्यासीत् । तथा च परिमलकवि-प्रणीतनवसाहसाङ्क-
चरिते ( १।१७ )—
ग