युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
DevanagariHindipublished278 पृष्ठ
पृष्ठ 21, कुल 278 में से
संदर्भ में पढ़ेंपृष्ठ 21( ॥१०॥ )
( ॥१०॥ )
मात्यपदमधिरूढ़ इति तस्मिन् चिन्तामणौ सुदीर्घं वृत्तमासीदिति।
कृष्णराजस्य शकाब्दे ( ११७० ) मिते ( खृः १२४५ ) बभूवेति
काव्यमाला मुद्रित-प्राचीनलेखमालाया ( ३६) संख्याकदानपत्र-
प्रकटितादवगम्यते । एतस्मिन्नेव समये नासिकत्र्यम्बके श्रीमद-
मलानन्दयतौन्द्रेण वेदान्तकल्पतरुर्व्यरचि । अतो भोजभूभुक्
एभ्यः पूर्व्ववर्त्तीति सम्यक् आभाति ।
भोजराज विरचित-ग्रन्थास्तु एवमन्यत्र दृश्यन्ते,—
अलङ्कारे—( सरस्वती-कण्ठाभरणम् ), योगे—(राजमार्त्तण्डम्),
ज्योतिषे—(राजमार्त्तण्डः, विद्वज्जनवल्लभः, आदित्यप्रतापः), वैद्यके—
( राजमृगाङ्ककरणम्, आयुर्वेदसर्व्वस्वम्, विश्रान्तचिन्ताविनोदः ),
वास्तुशास्त्रे—( समराङ्गणम् ), काव्यशास्त्रे—( शृङ्गारमञ्जरीकथा ),
धर्म्मशास्त्रे—( भोजचम्पूः, व्यवहारसमुच्चयः, चारुचर्य्या ), शैवदर्शने—
( तत्त्वप्रकाशः, नाममालिकाकोशः ), नीतिशास्त्रे—( युक्तिकल्प-
तरुः, विद्याविनोदकाव्यम् ), पाणिनीये—( शब्दानुशासनम् ),
अश्वशास्त्रे—( शालिहोत्रीयम् ), शैवे—( शैवसिद्धान्तसंग्रहः ), प्रश्न-
चिन्तामणिः, शिवदत्तम्, रत्नकलिका, सूत्रधारौयम् ), सुभाषिते—
( सुभाषितप्रबन्धः ) इति । *
- आलफ्रेड् साहेबस्तदीय ( See Catalogus Catalogorum I, p.
478 ) 'क्याटालोगस् क्याटालोगीराम्' नामक ग्रन्थे, युक्तिकल्पतरुः येषु ग्रन्थेषु व्यव-
हृतस्तेषां नाम सूचिकां प्रददौ। परमुक्त साहेबमतं, येषां सन्दर्भाणां भोजराजविरचितत्वेन
प्रसिद्धिरस्ति तेषु एकोऽपि ग्रन्थस्तेन राज्ञा नैव विरचित इति । अन्ये साहेवीया
ग्रन्था भोजरचिताः सन्तु वा नवा परमहं कल्पतरुर्भोजविरचित एव। ( अन्यत् पृष्ठे
ओरियन्स् द्वितीयखण्डे ) ।