युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 207, कुल 278 में से
संदर्भ में पढ़ेंअस्त्रयुक्तिः । १६७
तस्य स्पर्शनमात्रेण सचेलं स्नानमाचरेत् ॥ ९७ ॥
कालिकारिष्टमित्येतद् धोधृति स्मृति नाशनम् ॥ ९८ ॥
एकत्र यदि न ह्येष प्रयत्नेनापि संवृतः ।
दारो नाम महारिष्टं सर्व्वाभीष्ट-विनाशनम् ।
अनेकगुण-सम्पन्नः खड्गो लोकैर्न गृह्यते ॥ ९९ ॥
कपोतपक्षप्रतिममरिष्टं चेत् तदाह्वयम् ।
भर्त्तुः कुलं यशो विद्यां बलं बुद्धिश्च नाशयेत् ॥ १०० ॥
काकाकृति र्यदारिष्टं काकारिष्टं तदोच्यते ।
अनेन भर्त्तुः संग्रामे भङ्ग एवोपजायते ॥ १ ॥
अरिष्टे खर्पराकारि खर्परारिष्टमुच्यते ।
भर्त्तुर्यशो बलं वीर्यं बुद्धिं प्रीतिञ्च नाशयेत् ॥ २ ॥
यदान्यल्लोहशकलं (१) लग्नं स्यादिव लक्ष्यते ।
शकलोति स वै खड्गः सर्व्वाभीष्ट-निसूदनः ॥ ३ ॥
(क्रोड़ोकुशपत्रयोर्लक्षणे पतिते) ।
यस्मिन् निम्नमिवाभाति मध्ये वा दृश्यते क्वचित् ।
जालारिष्ट(२)मिदं नाम भर्त्तुः कुलधनापहम् ॥ ४ ॥
एकैकरेखा दीर्घाग्रा यदा पल्लविनौ भवेत् ।
स्पर्शे वाथ करेणाथ कराला(३)रिष्टमुच्यते ॥ ५ ॥
अयं हि क्षितिपालानां दृष्टियोग्यो भवेन्नहि ।
दर्शनादेव नश्यन्ति यशो लक्ष्मी-जयादयः ॥ ६ ॥
( १ ) सकलं इति (क) पुस्तक पाठः ।
( २ ) जलारिष्ट इति (ख) पुस्तक पाठः ।
( ३ ) करीलोऽ इति (ग) पुस्तक पाठः ।