सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 176, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 176

१३६ युक्तिकल्पतरौ—
मृत्युप्रदास्तु विदुषा परिवर्ज्जनीया-
मूल्यं पलस्य कथितञ्च शतानि पञ्च ॥ ९८ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ पुलकमणि-परीक्षा ।
——
अथ रुधिराख्यपरीक्षा ।
हुतभुग्रूपमादाय दानवस्य यथेप्सितम् ।
नर्म्मदायां निचिक्षेप किञ्चिद्धोनादि भूतले ॥ ९९ ॥
तत्रेन्द्र गोपकलितं शुकवक्त्रवर्णं,
संस्थानतः प्रकटपीलुसमानमात्रम् ।
नाना प्रकारविहितं रुधिराख्यरत्न-
मुद्धृत्य तस्य खलु सर्व्वसमानमेव ॥ १०० ॥
मध्येन्दुपाण्डुरमतीव विशुद्धवर्णं,
तच्चेन्द्रनीलसदृशं पटलं तुले स्यात् ।
सौख्यर्य्यभूत्यजननं कथितं तदेव,
पक्वञ्च तत् किल भवेत् सुरवज्रवर्णम् ॥ १ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ रुधिराख्यपरीक्षा ।
—
—
अथ स्फटिक लक्षणम् ।
तथा च गारुड़े,—
कावेर-विन्ध्य-यवन-चीन-नेपाल भूमिषु ।
लाङ्गली व्यकिरन्मेदो दानवस्य प्रयत्नतः ॥ २ ॥
आकाशशुद्धं तैलाख्यमुत्पन्नं स्फटिकं ततः ।
मृणालशङ्ख-धवलं किञ्चित् वर्णान्तरान्वितम् ॥ ३ ॥