युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 162, कुल 278 में से
संदर्भ में पढ़ें१२२ युक्तिकल्पतरौ—
प्रमाणताल्पं गुरुयद् घनमित्यभिधीयते ॥ ७८ ॥
कलङ्कादि-विहोनन्तदत्यच्छमिति कीर्त्तितम् ।
ब्रह्म-सूत्रं कलाकारश्चञ्चलो यत्रदृश्यते ॥ ७६ ॥
कलिलं नामतद्राङ्गः सर्व-सम्पत्ति-कारकम् ।
विशिष्टाङ्गन्तु वैदूर्य्यं व्यङ्गमित्यभिधीयते ॥ ८० ॥
गुणवान् वैदूर्य्य-मणैर्योजयति स्वामिनं वरभा(भो)ग्यैः ।
दोषैर्युक्तो दोषैस्तस्माद् यत्नात् परीक्षेत ॥ ८१ ॥
कर्करं कर्कशश्वासः कलङ्को देह इत्यपि ।
एते पञ्च महादोषा वैदूर्य्याणामुदीरिताः ॥ ८२ ॥
शर्करायुक्तमिव यत् प्रतिभाति च कर्करम् ।
स्पर्शेऽपि च यत्तज्ज्ञेयं कर्करं वस्तुनाशनम् ॥ ८३ ॥
भिन्न भ्रान्ति-करश्वासः स कुर्य्यात् कुल-संक्षयम् ।
विरुद्ध-वर्णो यस्याङ्गे कलङ्कः क्षय-कारकः ॥ ८४ ॥
मलदिग्ध इवाभाति देहो देह-विनाशनः ॥ ८५ ॥
जयति यदि सुवर्णं त्यागहीनं यदा वा,
बहुविध-मणिधारी भूपतिर्वा यतिर्वा ।
दधदपि धृतदोषं जातु वैदूर्य्यरत्नम् ;
प्रतिशत-फलरूप-पातमेष(ष्य)त्यवश्यम् ॥ ८६ ॥
गिरिकाच-शिशुपालौ काच-स्फटिकाश्च भूमिनिर्भिन्नाः ।
वैदूर्य्य-मणेरेते विजातयः सन्निभाः सन्ति ॥ ८७ ॥
लिख्याभावात् काचं लघुभावाच्छैशुपालकम्बिद्यात् ।
गिरिकाचमदीप्तित्वात् स्फटिकं वर्णोज्ज्वलत्वेन ॥ ८८ ॥
जात्यस्य वर्णस्य मणेर्नजातु विजातयः सन्ति समानवर्णाः ।
तथापि नानाकरणार्थमेवं भेदप्रकारः परमः प्रदिष्टः ॥ ८९ ॥
सुखोपलच्छ्यस्य सदा विचार्यो ह्ययं प्रभेदो विदुषा नरेण ।