सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 160, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 160

१२० युक्तिकल्पतरौ—
नवमात्पञ्चमं यावत् कलञ्जेन समं यदा * ।
तत्क्रमादुत्तमं ज्ञेयं मौक्तिकं रत्न-वेदिभिः ॥ ६२ ॥
चतुर्दशाक्षमारभ्य दशसंख्या-विधिं क्रमात् ।
कलञ्जस्य समानं वा (३) मौक्तिकं मध्यमं विदुः ॥ ६३ ॥
आरभ्य विंशतितमात् क्रमात्पञ्चदशावधि ।
लङ्गरास्ताः कथिता मुक्ता मूल्यञ्च तदनुक्रमात् ॥ ६४ ॥
कलञ्जद्वयमानेन यद्येकं मौक्तिकम्भवेत् ।
न धार्यं नरनाथैस्तु देव-योग्यममानुषम् ॥ ६५ ॥
इत्थं विचार्य्य यो मुक्तां परिधत्ते नराधिपः ।
तस्यायुश्च यशो वीर्य्यं विपरीतमतोऽन्यथा ॥ ६६ ॥
इति श्रीभोजराजोये युक्तिकल्पतरौ मुक्तापरीक्षा ॥
——००——
अथ वैदूर्य्य परीक्षा ।
कल्पान्तकाल क्षुभिताम्बुराशि,
निर्ह्रादकल्पा दितिजस्य नादम् ।
वैदूर्य्यमुत्पन्नमनेकवर्णं ;
शोभाभिरामं द्युतिवर्ण-वौजम् ॥ ६७ ॥
अविदूरे विदूरस्य (४) गिरेरुत्तङ्ग-रोधसः ।
कामभूतिक-सौमान-मनु तस्याकरोऽभवत् † ॥ ६८ ॥

(३) समानत्वात् इति (ख) पुस्तकपाठः ।
(४) अविदूरे वैदूर्य्यस्य इति (ग) पुस्तक पाठः ।

  • नवमात् पञ्चमं यावत् — इत्यारभ्य मध्यमम्बिदुरित्यन्तं श्लोकद्वयं (क) पुस्तकेऽधिकं
    दृश्यते ।
    † कामभूतिकसौमानं इति पाठमनादृत्य 'काकतालीसौमान्ते मनीनामाकरोऽभवत्'
    इत्येवं वृद्धवचनमित्युक्त्वामल्लिनाथेन कुमारसम्भव टीकायान्तदवादि ।