याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 62, कुल 782 में से
संदर्भ में पढ़ें६ याज्ञवल्क्यस्मृतिः
एतेन शूद्रस्यामन्त्रकाः क्रियाः इत्युक्तं भवति, 'शूद्रोऽप्येवंविधः कार्यो बिना
मन्त्रेण संस्कृतः' इति यमोक्तेः । निषेकाद्याः निषेको गर्भाधानमाद्यो यासां
तास्तथोक्ताः । श्मशानं पितृवनं तत्संबन्धि कर्म १अन्तो यासां ताः क्रिया
मन्त्रैर्भवन्ति ॥ १० ॥
भाषा—ब्राह्मण, क्षत्रिय, वैश्य और शूद्र—ये (चार) वर्ण हैं; इनमें
आरंभ के तीन द्विज हैं। गर्भाधान से लेकर अन्त्येष्टि तक की इनकी सभी
क्रियाएँ मन्त्रों द्वारा सम्पादित होती हैं ॥ १० ॥
इदानीं ताः क्रिया अनुक्रामति—
गर्भाधानमृतौ पुंसः सवनं स्पन्दनात्पुरा ।
षष्ठेऽष्टमे वा सीमन्तो मास्येते जातकर्म च ॥ ११ ॥
अह्न्येकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥ १२ ॥
गर्भाधानमित्यनुगतार्थं कर्मनामधेयम् । एवं वक्ष्यमाणान्यपि । तद् गर्भाधान-
मृतौ ऋतुकाले वक्ष्यमाणलक्षणे । पुंसवनाख्यं कर्म गर्भचलनात्पूर्वम् । षष्ठेऽष्टमे
वा मासि सीमन्तोन्नयनम् । एते च द्वे पुंसवन-सीमन्तोन्नयने क्षेत्रसंस्कारकर्म-
त्वात्सकृदेव कार्ये, न प्रतिगर्भम् । तथाह देवलः—'सकृच्च संस्कृता नारी
सर्वगर्भेषु संस्कृता । य य गर्भं प्रसूयेत स सर्वः संस्कृतो भवेत्' इति । यद्वा-एते
आ इते आगते गर्भकोशाज्जाते २कुमारे जातकर्म एकादशेऽहनि ३नाम ।
तच्च पितामहमातामहादिसम्बद्धं कुलदेवतासम्बद्धं वा । यथाह शङ्खः (२।१४)—
'कुलदेवतासम्बद्धं पिता नाम कुर्यात्' इति । चतुर्थे मासि निष्क्रमणलक्षणं
सूर्यावेक्षणं कर्म । षष्ठे मास्यन्नप्राशनं कर्म । चूडाकरणं तु यथाकुलं कार्यमिति प्रत्येके
सम्बध्यते ॥ ११-१२ ॥
भाषा— गर्भाधान संस्कार (गर्भधारण के) समय पर होता हैं और
पुंसवन गर्भचलन के पहले होता है; जन्म लेने पर जातकर्म, ग्यारहवें
दिन नामकरण, चौथे मास में निष्क्रमण, संस्कार करे । छठें मास में
अन्नप्राशन संस्कार करे और चूडाकरण संस्कार कुल की रीति के
अनुसार करना चाहिए ॥ ११-१२ ॥
एतेषां नित्यत्वेऽप्यानुषङ्गिकं फलमाह—
एवमेनः शमं याति बीजगर्भसमुद्भवम् ।
१. अन्ते यासां । २. कुमारे जाते । ३. नामकशब्द ।