याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 60, कुल 782 में से
संदर्भ में पढ़ें४ याज्ञवल्क्यस्मृतिः
भाषा—मनु, अत्रि, विष्णु, हारीत, याज्ञवल्क्य, उशनस्, अङ्गिरस्, यम,
आपस्तम्ब, संवर्त, कात्यायन, बृहस्पति, पराशर, व्यास, शङ्ख, लिखित, दक्ष,
गौतम, शातातप और वसिष्ठ-ये धर्मशास्त्रों के प्रणेता हैं ॥ ४-५ ॥
इदानीं धर्मस्य कारकहेतूनाह-
देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ।
पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥ ६ ॥
देशो 'यस्मिन्देशे मृगः कृष्णः' ( १।२ ) इत्युक्तलक्षणः, कालः संक्रान्त्यादिः,
उपायः शास्त्रोक्तेतिकर्तव्यताकलापः, द्रव्यं प्रतिग्रहादिलब्धं गवादि, श्रद्धा
आस्तिक्यबुद्धिः, तदन्वितं यथा भवति तथा । पात्रं 'न विद्यया केवलया' (आचार-
१।२०० ) इत्येवमादिवक्ष्यमाणलक्षणम् । प्रदीयते यथा न प्रत्यावर्तते तथा
परस्वत्वापत्यवसानं त्यज्यते । एतद्धर्मस्योत्पादकम् । किमेतावदेव नेत्याह-
सकलमिति । अन्यदपि शास्त्रोक्तं जातिगुणहोमयागादि तत्सकलं धर्मस्य कारणं
जातिगुणद्रव्यक्रियाभावात्मकं चतुर्विधं धर्मस्य कारणमित्युक्तं भवति । तच्च
समस्तं व्यस्तं वा यथाशास्त्रं द्रष्टव्यम् । श्रद्धा सर्वत्रानुवर्तत एव ॥ ६ ॥
भाषा—(पवित्र) देश में (उपयुक्त) समय पर विधिपूर्वक जो भी
(स्वर्णादि) द्रव्य योग्य व्यक्ति को दान दिया जाता है वह सब धर्म का
लक्षण है ॥ ६ ॥
इदानीं धर्मस्य ज्ञापकहेतूनाह-
श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
सम्यक्सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ ७ ॥
श्रुतिर्वेदः, स्मृतिर्धर्मशास्त्रम्, तथा च मनुः (२।१०) 'श्रुतिस्तु वेदो
विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः' इति । सदाचारः सतां शिष्टानामाचारोऽनुष्ठानम्,
स्वस्य चात्मनः प्रियं, वैकल्पिकेषु विषये यथा-'गर्भाष्टमेऽष्टमे वाब्दे' (आचार.
२।१४ ) इत्यादावात्मेच्छैव नियमिका । सम्यक्सङ्कल्पजातः कामः शास्त्रविरुद्धो
यथा-'मया भोजनव्यतिरेकेणोदकं न पातव्यम्' इति । एते धर्मस्य मूलं
प्रमाणम् । एतेषां विरोधे पूर्वपूर्वस्य बलीयस्त्वम् ॥ ७ ॥
भाषा-वेद-धर्मशास्त्र, सज्जनों के आचरण, अपने आत्मा के अनुकूल
(उत्तम) कार्य तथा विवेकपूर्ण संकल्प से उत्पन्न हुई इच्छा-ये सब धर्म का
मूल कहे गये हैं ॥ ७ ॥
१. विरोधे तु । २. नुष्ठानं नाशिष्टानाम् । ३. इत्यत्रात्मेच्छैव.
इत्याद्विच्छारमेच्छैव । ४. शास्त्राविरुद्धः कामो यथा ।