याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 509, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ४५३
है; दूसरे मास में अर्बुद (कुछ कठिन मांसपिण्ड) बनता है, और तीसरे
मांस में अङ्गों एवं इन्द्रियों से युक्त हो जाता है ॥ ७५ ॥
आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम् ।
वायोश्च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यमेव च ॥ ७६ ॥
पित्तात्तु दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशिताम् ।
रसात्तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् ॥ ७७ ॥
भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च ।
आत्मा गृह्णात्यजः सर्वं तृतीये स्पन्दते ततः ॥ ७८ ॥
किंच, 'आत्मा गृह्णाति' इति सर्वत्र संबध्यते । गगनाल्लघुिमानं लङ्घनक्रियोप-
योगिताम् , सौक्ष्म्यं सूक्ष्मेक्षित्त्वम् शब्दं विषयम्, श्रोत्रं श्रवणेन्द्रियम्, बलं
दार्ढ्यम्; 'आदि' ग्रहणात्सुषिरत्वं विविक्ततां च; 'आकाशाच्छब्दं श्रोत्रं विविक्ततां
सर्वच्छिद्रसमूहांश्च' इति गर्भोपनिषद्दर्शनात् , पवनात्स्पर्शेन्द्रियम्, चेष्टां गमना-
गमनादिकाम्; व्यूहनमङ्गानां विविधं प्रसारणम्, रौक्ष्यं कर्कशत्वं, 'च' शब्दा-
त्स्पर्शं च; पित्तात्तेजसो दर्शनं चक्षुरिन्द्रियम् , पक्तिं भुक्तस्यान्नस्य पचनम्,
औष्ण्यमुष्णस्पर्शत्वमङ्गानाम्, रूपं श्यामिकादि, प्रकाशितां आजिष्णुताम्, तथा
संतापामर्षादि च; 'शौर्यममर्षं तैक्ष्ण्यंपक्त्यौष्ण्यम्भ्राजिष्णुतासंतापवर्णरूपेन्द्रियाणि
तैजसानि' इति गर्भोपनिषद्दर्शनात् ; एवं रसादुदकाद्रसनेन्द्रियम् , शैत्यमङ्गा-
नाम् , स्निग्धता मृदुत्वसहितं, क्लेदमार्द्रताम् , तथा भूमेर्गन्धं घ्राणेन्द्रियं
गरिमाणं मूर्तिं च । सर्वमेतत्परमार्थतो जन्मरहितोऽप्यात्मा तृतीये मासि
गृह्णाति । ततश्चतुर्थे मासि स्पन्दते चलति । तथा च शारीरके-'तस्माच्चतुर्थे
मासि चलनादावभिप्रायं करोति' इति ॥ ७६-७८ ॥
भाषा-आकाश से लाघव ( जो लाँघने की क्रिया के लिये उपयोगी होता
है ), सूक्ष्मता, शब्द, श्रवणेन्द्रिय और बल आदि ग्रहण करता है, वायु
से स्पर्शेन्द्रिय, चेष्टा (गमनागमन), अंगों का फैलाना, कर्कशता; पित्त ( तेज )
से दृष्टि, पाचनशक्ति, उष्णता, रूप और प्रकाशित करने की शक्ति; रस
अर्थात् जल से रसनेन्द्रिय, अङ्गों की शीतलता, स्निग्धता, गीलापन और
कोमलता; पृथिवी से गन्ध, घ्राणेन्द्रिय, गुरुता ( भारीपन ) और
आकार-इन सबको जन्मरहित होते हुए भी आत्मा ( गर्भ के ) तीसरे मास
में ग्रहण कर लेता है ॥ ७६-७८ ॥
दौहृदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
वैरुप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः ॥ ७९ ॥
१. शब्दश्रोत्रबला । २. प्रकाशताम् । ३. रसेभ्यो । ४. दोहदस्याप्रदानेन ।