सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 504, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 504

४४८ याज्ञवल्क्यस्मृतिः
एवमवेद्यानन्तरं किं कार्यमित्यत आह—
ध्यानयोगेन 'संपश्येत्सूक्ष्मं आत्मात्मनि स्थितिः ॥ ६४ ॥
योगश्चित्तवृत्तिनिरोधः, आत्मैकाग्रता ध्यानं, तस्या एव बाह्यविषयस्थोपरमः
ध्यानयोगेन निदिध्यासतापर्यायेण सूक्ष्मशरीरप्राणादिभ्यतिरिक्तः क्षेत्रज्ञ आत्मा
आत्मनि ब्रह्मण्यवस्थितः इत्येवं तत्त्वं पदार्थयोरभेदं सम्यक् पश्येदपरोक्षीकुर्यात् ।
अत एव श्रुतौ ( बृ० उ० ५।४।५ ) 'आत्मा वाऽरे द्रष्टव्यः' इति साक्षात्काररूपं
दर्शनमनूद्य तत्साधनत्वेन 'श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' ( बृ० ५।४।५)
इति श्रवणमनननिदिध्यासनानि विहितानि ॥ ६४ ॥
भाषा—और ध्यान ( चित्त की एकाग्रता ) और ध्यान ( चित्तवृत्ति के
निरोध ) से आत्मा को ब्रह्म में स्थित देखे ॥ ६४ ॥
नाश्रमः कारणं धर्मे क्रियमाणो भवेद्धि सः ।
अतो यदात्मनोऽपथ्यं परेषां न तदाचरेत् ॥ ६५ ॥
किंच, प्राक्तनश्लोकोक्तात्मोपासनारूपे धर्मे नाश्रमों दण्डकमण्डल्वादिधारणं
कारणम् । यस्मादसौ क्रियमाणो भवेदेव नातिदुष्करः । तस्माद्यदात्मनोऽपथ्य-
मुद्वेगकरं परुषभाषणादि तत्परेषां न समाचरेत् । अनेन ज्ञानोत्पत्तिहेतुभूतान्तः-
करणशुद्ध्यापादनत्वेनान्तरङ्गत्वाद्वागद्वेषप्रहाणस्य प्रधानत्वेन प्रशंसार्थमाश्रम-
निराकरणं न पुनस्तत्परित्यागाय तस्यापि विहितत्वात् । तदुक्तं मनुना
( ६।६६ )—'दूषितोऽपि चरेद्धर्मं यत्र तत्राश्रमे वसन् । समः सर्वेषु भूतेषु न
लिङ्गं धर्मकारणम् ॥' इति ॥ ६५ ॥
भाषा—किसी धर्म के आचरण में कोई विशेष आश्रम कारण नहीं है;
वह तो करने से होता है । इसलिए अपने को जो न रुचे ( उद्वेग कर लगे )
वह दूसरो के लिए नहीं करना चाहिये ॥ ६५ ॥
सत्यमस्तेयमक्रोधो ह्रीः शौचं धीर्धृतिर्दमः ।
संयतेन्द्रियता विद्या 'धर्मः सर्व उदाहृतः ॥ ६६ ॥
किंच, सत्यं यथार्थप्रियवचनम् , अस्तेयं परद्रव्यानपहारः, अक्रोधोऽप-
कारिण्यपि क्रोधस्यानुत्पादनम् , ह्रीर्लज्जा शौचमाहारादिशुद्धिः, धीर्हिताहित-
विवेकः, धृतिरिष्टवियोगेऽनिष्टप्राप्तौ प्रचलितचित्तस्य यथापूर्वमवस्थापनम . दमो
मदत्यागः, संयतेन्द्रियता अप्रतिषिद्धेष्वपि विषयेष्वनतिसङ्गः, विद्या आत्मज्ञानम्,
एतैः सत्यादिभिरनुष्ठितैः सर्वो धर्मोऽनुष्ठितो भवति । अनेनं दण्डकमण्डल्वादि-
धारणबाह्यलक्षणात् ( बृ० उ० ४।५।६ ) सत्यादीनामात्मगुणानामन्तरङ्गतां
द्योतयति ॥ ६६ ॥
१. संदृश्यः सूक्ष्म । २. सर्वधर्म उदाहृतः ।