सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 502, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 502

४४६ याज्ञवल्क्यस्मृतिः
यल्लभेत्तद्भुञ्जीत सायं प्रातर्मांसवर्ज्यम्' इति,-तदशक्तविषयम् । भिक्षुकैर्भिक्षण-
शीलैः पाखण्ड्यादिभिर्वर्जिते ग्रामे । मनुनात्र विशेष उक्तः (६।५१)—'न ताप-
सैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः । आकीर्णं भिक्षुकैरन्यैरगारमुपसंव्रजेत् ॥'
इति । यावता प्राणयात्रा वर्तते तावन्मात्रं भैक्षं चरेत् । तथा च संवर्तः—'अष्टौ
भिक्षाः समादाय मुनिः सप्त च पञ्च वा । अद्भिः प्रक्षाल्य ताः सर्वास्ततोऽ-
श्नीयाच्च वाग्यतः ॥' इति । अलोलुपो मिष्टान्नव्यञ्जनादिष्वप्रसक्तः ॥ ५९ ॥
भाषा—प्रमादरहित होकर (वाणी, नेत्र आदि इन्द्रियों की चपलता
छोड़कर), ज्योतिष शास्त्र आदि द्वारा विचार न करके, सायंकाल में, जिस गांव
में अन्य भिक्षुक न हों उस गांव में लोभरहित होकर केवल जीवन चलाने
भर के लिए पर्याप्त भिक्षा ग्रहण करे ॥ ५९ ॥
भिक्षाचरणार्थं पात्रमाह—
यतिपात्राणि मृद्वेणुदार्वलाबुमयानि च ।
सलिलं शुद्धिरेतेषां गोवालैश्चावघर्षणम् ॥ ६० ॥
मृदादिप्रकृतिकानि यतीनां पात्राणि भवेयुः । तेषां सलिलं गोवालावघर्षणं
च शुद्धिसाधनम् । इयं च शुद्धिर्भिक्षाचरणार्दादिप्रयोगाङ्गभूता, नामेध्याद्युपहति-
विषया । तदुपघाते द्रव्यशुद्धिप्रकरणोक्ता द्रष्टव्या अत एव मनुना (६।५३) —
'अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च । तेषामद्भिः स्मृतं शौचं चमसाना-
मिवाध्वरे ॥' इति । चमसदृष्टान्तोपादानेन प्रायोगिकी शुद्धिर्दर्शिता । पात्रान्त-
राभावे भोजनमपि तत्रैव कार्यम्; 'तद्भैक्ष्यं गृहीत्वैकान्ते तेन पात्रेणान्येन वा
तूष्णीं प्राणमात्रं भुञ्जीते'ति देवलस्मरणात् ॥ ६० ॥
भाषा—मिट्टी, बांस, काठ और अलाबु (लौकी) के बने हुए संन्या-
सियों के पात्रों की शुद्धि जल से और गोवाल द्वारा मलने से होती है ॥६०॥
एवंभूतस्य यतेरात्मोपासनाङ्गं नियमविशेषमाह—
संनिरुद्धेन्द्रियग्रामं रागद्वेषौ प्रहाय च ।
भयं हित्वा च भूतानाममृतीभवति द्विजः ॥ ६१ ॥
चक्षुरादीन्द्रियसमूहं रूपादिविषयेभ्यः सम्यङ्निरुध्य विनिवर्त्य रागद्वेषौ
प्रियाप्रियविषयौ प्रहाय त्यक्त्वा 'च' शब्दादीर्ष्यादीनपि, तथा भूतानामपकारेण
भयमकुर्वन् शुद्धान्तःकरणः सन्नद्वैतसाक्षात्कारेणामृतीभवति मुक्तो भवति ॥
भाषा—इन्द्रियों को सम्यक् रूप से अपने वश में करके (विषयों से
मोड़कर), तथा राग और द्वेष का त्याग करके, प्राणियों को अपकार द्वारा
१. भिक्षाहरणप्रयोग । २ विहाय । ३. अपकारणेन ।