सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 206, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 206

१५० - याज्ञवल्क्यस्मृतिः
चाटतस्करदुर्वृत्तमहासाहसिकादिभिः ।
पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ॥ ३३६ ॥
चाटाः प्रतारकाः विश्वास्य ये परधनमपहरन्ति, प्रच्छन्नापहारिणस्त-
स्कराः, दुर्वृत्ता १ऐन्द्रजालिककितवादयः, सहो बलं सहसा बलेन कृतं
साहसं महत् तत्साहसं च महासाहसं तेन वर्तन्त इति महासाहसिकाः
२प्रसह्योपहारिणः, 'आदि' शब्दान्मौलिककुहकदुर्वृत्तयः । एतैः पीड्यमाना बाध्य-
मानाः प्रजा रक्षेत् । कायस्था लेखका गणकाश्च तैः पीड्यमाना विशेषतो
रक्षेत्, तेषां राजवल्लभतयातिमायावितया च दुर्निवारत्वात् ॥ ३३६ ॥
भाषा—लुटेरों, चोरों, ऐन्द्रजालिक आदि धूर्तों एवं दुस्साहसी डाकुओं
आदि से पीडित प्रजा की रक्षा करे और विशेषतया कायस्थों (लेखकों एवं
गणकों) से पीडित व्यक्तियों की रक्षा करे ॥ ३३६ ॥
अरक्ष्यमाणाः कुर्वन्ति यत्किञ्चित्किल्बिषं प्रजाः ।
तस्मात्तु नृपतेरर्धं यस्माद् गृह्णात्यसौ करान् ॥ ३३७ ॥
अरक्ष्यमाणाः प्रजाः यत्किञ्चित्किल्बिषं चौर्यपरदारगमनादि कुर्वन्ति
तस्मात्पापादधं नृपतेर्भवति । यस्मादसौ राजा रक्षणार्थं प्रजाभ्यः
करान् गृह्णाति ॥ ३३७ ॥
भाषा—राजा द्वारा अरक्षित प्रजा जो कुछ (चोरी आदि) पाप करती
है, उसमें से आधा पाप उसका हो जाता है; क्योंकि वह रक्षा करने के लिये
ही प्रजाओं से कर लेता है ॥ ३३७ ॥
ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् ।
साधून्समानयेद्राजा विपरीतांश्च३ घातयेत् ॥ ३३८ ॥
उत्कोचजीविनो द्रव्यहीनान्कृत्वा विवासयेत् ।
४संदानमानसत्कारैःश्रोत्रियान्वासयेत्सदा ॥ ३३९ ॥
राष्ट्रे राष्ट्राधिकारेषु ये नियुक्तास्तेषां विचेष्टितं चरितं चारैरुक्तलक्षणैः
सम्यक् ज्ञात्वा साधून्सुचरितान् संमानयेत् दानमानसत्कारैः पूजयेत् ।
विपरीतान्दुष्टचरितान्सम्पग्विदित्वा घातयेत् अपराधानुसारेण । ये पुन-
रुत्कोचजीविनस्तान्द्रव्यरहितानकृत्वा स्वराष्ट्रात्प्रवासयेत् । श्रोत्रियान्सदान-
मानसत्कारैः सहितान्कृत्वा स्वराष्ट्रे स्वदेशे सदैव वासयेत् ॥ ३३८-३३९ ॥
भाषा—जो राज्यकार्य में अधिकारयुक्त पदों पर नियुक्त हों उनका
आचरण भलीभाँति गुप्तचरों द्वारा जानकर राजा उत्तमचरित्रवालों का
१. ऐन्द्रजालिक । २. अपकारिणः । ३. स्तु । ४. सदानमान ।