व्याकरण महाभाष्य: पस्पशाह्निक (महर्षि पतञ्जलि - शब्द-साधुत्व एवं व्याकरण प्रयोजन सटीक)
Vyakarana Mahabhashya Paspashahnika of Maharshi Patanjali with Commentary
महर्षि पतञ्जलि (टीकाकार: डॉ. रमण कुमार शर्मा) द्वारा
पृष्ठ 74, कुल 96 में से
संदर्भ में पढ़ें६० महाभाष्यम्
मूलम्—अथवा पुनरस्तु—ज्ञान एव धर्म इति ।
ननु चोक्तं ज्ञाने धर्म इति चेत्तथाऽधर्म इति ।
नैष दोषः । शब्दप्रमाणका वयम्, यच्छब्द आह तदस्माकं प्रमाणम् ।
शब्दश्च शब्दज्ञाने धर्ममाह, नापशब्दज्ञानेऽधर्मम् । यच्च पुनरशिष्टमप्रतिषिद्धं, नैव
तद्दोषाय भवति, नाभ्युदयाय । तद् यथा हिक्कितहसितकण्डूयितानि नैव दोषाय
भवन्ति, नाभ्युदयाय ।
अथवाऽभ्युपाय एवापशब्दज्ञानं शब्दज्ञाने । यो ह्यपशब्दाञ्जानाति । शब्दा-
नप्यसौ जानाति । तदेवं “ज्ञाने धर्मः” इति ब्रुवतोऽर्थादापन्नं भवति—“अपशब्द-
ज्ञानपूर्वके शब्दज्ञाने धर्मः” इति ।
अथवा कूपखानकवदेतद्भविष्यति । तद्यथा कूपखानकः कूपं खनन्यद्यपि मृदा
पांसुभिश्चावकीर्णो भवति । सोऽप्सु सञ्जातासु तत एव तं गुणमासादयति । येन
च स दोषो निर्हण्यते, भूयसा चाभ्युदयेन योगो भवति । एवमिहापि यद्यप्यपशब्द-
ज्ञानेऽधर्मस्तथापि यस्त्वसौ शब्दज्ञाने धर्मस्तेन च स दोषो निर्हनिष्यते भूयसा
चाभ्युदयेन योगो भविष्यति ।
यदप्युच्यते “आचारे नियम” इति ।
याज्ञे कर्मणि स नियमोऽन्यत्रानियमः । एवं हि श्रूयते “यर्वाणस्तर्वाणो
नाम ऋषयो बभूवुः प्रत्यक्षधर्माणः परापरज्ञा विदितवेदितव्या अधिगतयाथा-
तथ्याः ।” ते तत्रभवन्तो यद्वानस्तद्वान इति प्रयोक्तव्ये यर्वाणस्तर्वाण इति
प्रयुञ्जते, याज्ञे पुनः कर्मणि नापभाषन्ते । तै पुनरसुरैर्यज्ञे कर्मण्यपभाषितम्
ततस्ते पराभूताः ।
प्रदीपः—अथवेति । अपशब्दज्ञानानान्तरीयकतवाच्छब्दज्ञानस्य पृथक् फलमप-
शब्दज्ञानस्य नास्तीत्यर्थः । दोष इति । उत्कृष्टधर्मफलावाप्तौ स्वल्पधर्मफलमुत्पन्न-
मप्यनुत्पन्नकल्पं भवतीत्यर्थः । प्रत्यक्षधर्माण इति । योगजप्रत्यक्षेण सर्वं विदित-
वन्तः परापरज्ञा इति । विद्याविद्याविभागज्ञाः ।
अनुवाद—अथवा फिर (ऐसा) हो—(शब्द के) ज्ञान में ही धर्म है ।
अभी जो कहा है कि यदि ज्ञान में धर्म है तो (अपशब्द के ज्ञान से) अधर्म
भी है ।
यह दोष नहीं है । हम शब्दप्रमाणवादी हैं, जो शब्द कहता है वह
हमारा प्रमाण है और शब्द (वेद) शब्द के ज्ञान में धर्म कहता है, अपशब्द के
ज्ञान में अधर्म नहीं । और जो न तो शिष्ट हो और न प्रतिषिद्ध हो, वह न तो
दोषजनक ही होता है, न अभ्युदयकारक ।
अथवा अपशब्दज्ञान शब्दज्ञान में उपाय ही है । जो अपशब्दों को जानता
है, वह शब्दों को भी जानता है । इस प्रकार से “ज्ञान में धर्म है” ऐसा कहते
हुए स्वयं ही यह अर्थ आपन्न होता है कि अपशब्दज्ञानपूर्वक शब्दज्ञान में धर्म है ।