विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 939, कुल 1001 में से
संदर्भ में पढ़ेंकृत्वा युक्तमथोक्षाणं दत्त्वा दीपान्समन्ततः ॥ १२ ॥
चन्द्रोदये नरो दत्त्वा सर्वपापैः प्रमुच्यते ॥
कान्तारे यममार्गे तु तेनासौ व्रजते सुखम् ॥ १३ ॥
सर्वाणि चास्य भोगानि तत्र चासौ प्रयच्छति ॥
मार्गशीर्षे तथा मासे पूर्णं शिशिरार्दितौ ॥ १४ ॥
महारजतयुक्तेन वाससा द्विजपुङ्गवान् ॥
आच्छाद्य कांस्यपात्रस्थं प्रस्थं कृत्वा समाहितः ॥ १५ ॥
लवणस्य तु शुक्लस्य चूर्णितस्य द्विजोत्तमाः ॥
दत्त्वा सुवर्णनाभन्तु तस्मिन्नेव द्विजातये ॥ १६ ॥
सौभाग्यंरूपलावण्ययुक्तो भवति मानवः ॥
गौरसर्षपकल्केन पौष्यामुत्साहितो नरः ॥ १७ ॥
गन्धस्याज्यस्य कुम्भेन सोऽभिषिक्तस्त्वनन्तरम् ॥
विरूढिस्थितस्तथा स्नातः सर्वबीजौषधीजलैः ॥ १८ ॥
गन्धस्तत्फलोपेतैर्घृतेन तदनन्तरम् ॥
स सुवर्णं मुखं दृष्ट्वा घृतं तत्प्रदद्याद्द्विजातये ॥ १९ ॥
घृतेन स्नपितं विष्णुं शक्त्या सम्पूजयेत्ततः ॥
घृतञ्च जुहुयाद्वह्नौ घृतं दद्याद्द्विजातये ॥ २० ॥
कृत्वैवं द्विगुणं द्वादश्योपवासः समाहितः ॥
कर्मणानेन धर्मज्ञाः पुष्टिमाप्नोत्यनुत्तमाम् ॥ २१ ॥
माघ्यां कृत्वा तिलैः श्राद्धं सर्वपापैः प्रमुच्यते ॥
स्वास्तीर्णं शयनं दत्त्वा फाल्गुन्यां ब्राह्मणस्य तु ॥ २२ ॥
रूपद्रविणसंयुक्तां भार्यां पक्षवतीं तथा ॥
नरः प्राप्नोति धर्मज्ञः पुष्टिमाप्नोत्यनुत्तमाम् ॥ २३ ॥
तथा नारीपि भर्तारं नात्र कार्या विचारणा ॥
पौर्णमासीषु चैतासु मासषट्सहितासु च ॥ २४ ॥
एतेषामेव दानानां फलं दशगुणं भवेत् ॥
महत्पूर्वासु चैतासु फलमक्षय्यमश्नुते ॥ २५ ॥
द्वादश्यां चैत्रशुक्लस्य चित्रवस्त्रप्रदो नरः ॥
अक्षयं फलमाप्नोति नाकलोके च गच्छति ॥ २६ ॥
वैशाखमासे द्वादश्यां रुक्मदानात्तथैव च ॥
छत्रोपानहयोर्दानाज्ज्येष्ठे मासि द्विजोत्तमाः ॥ २७ ॥
स्वास्तीर्णं शयनं दत्त्वा प्रीणयेद्भोगिशायिनम् ॥
आषाढशुक्लद्वादश्यां श्वेतद्वीपे महीयते ॥ २८ ॥
श्रावणे वस्त्रदानेन विष्णुलोके महीयते ॥
गोदः प्रयाति गोलोके मासि भाद्रपदे द्विजाः ॥ २९ ॥
प्रीणयेच्छिरसश्चाश्वं दत्त्वा तथाश्विने ॥
विष्णुलोकमवाप्नोति कुलमुद्धरति स्वकम् ॥ ३० ॥
सरोमवस्त्रदानेन कार्तिके दिवमाप्नुयात् ॥
प्रदानं लवणानान्तु मार्गशीर्षे महत्फलम् ॥ ३१ ॥
धान्यानाञ्च तथा पौषे दारूणां चाप्यनन्तरे ॥
फाल्गुने सर्वगन्धानां नात्र कार्या विचारणा ॥ ३२ ॥
भाग्यसंयुता चैत्री द्वादशी स्यान्महाफला ॥
हस्तयुक्ताथ वैशाखी ज्येष्ठे तु स्वातिना तथा ॥ ३३ ॥
ज्येष्ठायाञ्च तथाषाढे मूलोपेता च वैष्णवे ॥
तथा भाद्रपदे मासि श्रवणेन तु संयुता ॥ ३४ ॥
आश्विने द्वादशी पुण्या भवत्याज्यैर्ऋक्षसंयुता ॥
कार्तिके रेवतीयुक्ता सौम्ये कृत्तिकया तथा ॥ ३५ ॥
पौषे मृगशिरोपेता माघे चादित्यसंयुता ॥
फाल्गुने पुष्यसहिता द्वादशी पावना परा ॥ ३६ ॥
नक्षत्रयुक्तास्त्वेतास्तु तथा दानमुपोषितः ॥
सर्वकामफलं ज्ञेयमनन्तं द्विजसत्तमाः ॥ ३७ ॥
मेषसंक्रमणे भानोर्मेषदानं महाफलम् ॥
वृषसंक्रमणे दानं गवां प्रोक्तं तथैव च ॥ ३८ ॥