विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 706, कुल 1001 में से
संदर्भ में पढ़ेंअशुभ्रा विषमा दुर्गा सवल्मीका तथा च या ॥ ३४ ॥
मूषिकावासबहुला पिपीलकगुणान्विता ॥
नित्यं च शर्कराच्छिन्ना स्फुटा या च शूरोदकैः ॥ ३५ ॥
अवातसद्मना भूमिश्च बन्धनागारसंयुता ॥
वसतिश्चैव दृष्या च विकृता वेशिनापि वा ॥ ३६ ॥
वसतां दृष्टिदोषा च क्रमुपूषा तथैव च ॥
त्रिकोणा सच्छिद्रोर्ना च शूर्पाकारा तथा च या ॥ ३७ ॥
दक्षिणेन तथा निम्ना निम्ना पृष्ठत एव च ॥
पुरोन्मुखाहीणी या च सुशिरा च तथा नृप ॥ ३८ ॥
खातं च सुसृदा यत्र पूर्यते न पुनस्तया ॥
खातो यत्र कृतं दीपं प्रज्वलन्नुपगच्छति ॥ ३९ ॥
माल्यं च म्लायते खाते तां भूमिं परिवर्जयेत् ॥
खाते तोयेन पूर्णे च यत्र तोयं न तिष्ठति ॥ ४० ॥
तां भूमिं वर्जयेत्प्राज्ञोऽनिन्द्या च तथापि या ॥
प्रागुदक्प्रवणा शस्ता स्निग्धा च सुदृढा तथा ॥ ४१ ॥
खातोदकश्चां च सुश्वेन्न दूरमार्गे भवेन्नृप ॥
दीपो न म्लायते यत्र न्यस्तं च कुसुमं तथा ॥ ४२¹ ॥
तोयं सन्तिष्ठते खाते यत्र कालान्तरं बहु ॥
सा प्रशस्ता मही ज्ञेया सुगन्धा सुस्वना तथा ॥ ४३ ॥
भुवं परीक्षणं कुर्याद्दिवसेऽतिशुभे तथा ॥
भुवं परीक्षणे यत्र मङ्गल्यद्रव्यदर्शनम् ॥ ४४ ॥
श्रवणं वा तथैव स्यात्सा शुभा स्याद्वसुन्धरा ॥
न तां राजन्यपरीक्षेत प्रशस्ता सा प्रकीर्तिता ॥ ४५ ॥
अभङ्गद्रव्यं तथा दद्या श्रुतं वा नृपसत्तम ॥
भुवंः परीक्षणं तत्र न कार्यमशुभा दि सा ॥ ४६ ॥
शुभा मही यत्र भवेन्नृवीर कार्या प्रतिष्ठा भवतोऽह तत्र ॥
कृता मवेत्तत्र नगेन्द्रचन्द्र हिताय कर्तुः स्वविबुद्धये च ॥ ४७ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भूमिपरीक्षा नाम त्रिनवतितमोऽध्यायः ॥ ९३ ॥
॥ मार्कण्डेय उवाच ॥
शुभां परीक्ष्य वसुधां तत्र कुर्यात्सुरहालयम् ॥
आदौ तां शोधयेद्विद्वान्दिवसे शुभसंयुते ॥ १ ॥
तत्र देशे शुभं विद्वान्गोमयेनोपलेपयेत् ॥
ततः सम्पूजयेत्तत्र देवदेवं विनायकम् ॥ २ ॥
तथा च विश्वकर्माणं भाण्डं तदुपयोगि च ॥
पल्लोलैस्तृणिकाभिश्चकुल्माषापूपोदनैरुपेतैः ॥ ३ ॥
परमान्नेन सर्पिष्वां पुष्पधूपानुलेपनैः ॥
पूजयित्वा च देवेशं सात्वतं स्थापयित् तथा ॥ ४ ॥
भुवः संशोधनं कुर्याद्यथावद्विधिपूर्वकैः ॥
तावतसंशोधयेद्भूमिं निजा यावत्पश्यते ॥ ५ ॥
तदा संशोधयेद्विद्वान्यावत्स्याच्छल्यवर्जिता ॥
ततस्तु पूरयेत्खातं मृत्तिकया पुनः ॥ ६ ॥
तद्धर्मण्या तथा शस्ता यस्य वर्णस्य कीर्तिता ॥
अक्षालय्या मृत्तिकया पूरयेत्सुदृढं पुनः ॥ ७ ॥
कृत्वा तु पूरितं देशं सुदृढं सुसमन्ततः ॥
सुसदृशश्रात्यश्चादानाद्यं कुर्याच्छल्यपरीक्षणम् ॥ ८ ॥
यथा वक्ष्याम्यहं राजनस्तथा यत्नेन बुद्धिमान् ॥
पादि स्याच्छल्यसंयुक्ता शल्यमुद्धृत्य यत्नतः ॥ ९ ॥
पुनः सम्पूरयेद्विद्वानन्यत्वाच्छुभमृदा नृप ॥
एवं संशोध्य भूमिं तु कुर्या
¹ 'मद्यैश्च' इति ख० ।