सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 221, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 221

॥ विष्णुस्मृतौ ९९ । १०० ॥ २१९
निमेषमात्रं च विनाह्रताहं
न जातु तिष्ठे पुरुषोत्तमेन ॥ २३ ॥ ९९ ॥
धर्मशास्त्रमिदं श्रेष्ठं स्वयं देवेन भाषितम् ।
ये द्विजा धारयिष्यन्ति तेषां स्वर्गे गतिः परा ॥ १ ॥
इदं पवित्रं मङ्गल्यं स्वर्ग्यमायुष्यमेव च ।
ज्ञानं चैव यशस्यं च धनसौभाग्यवर्धनम् ॥ २ ॥
अध्येतव्यं धारणीयं श्राव्यं श्रोतव्यमेव च ।
श्राद्धेषु श्रावणीयं च भूतिकामैर्नरैः सदा ॥ ३ ॥
॥ इति वैष्णवे धर्मशास्त्रे शततमोऽध्यायः ॥
॥ समाप्ता चेयं श्रीविष्णुस्मृतिः ॥
23 om. C¹,². After the comment on C, 3, V¹⁻³ add
the following : इदानीं तस्यैव नित्यकाम्यत्वमाह । य इदं पठते नित्यं
भूतिकामो नरः सदा । यो नरस्त्रैवर्णिकः पुमान् स्त्री इदं शास्त्रं पठते
स सदा भूतिभिः काम्यते । इदं रहस्यं परमं कथितं वसुधे तव । मया
प्रसन्नेन जगद्धितार्थम् । सौभाग्यमेतत्परमं पवित्रम् ( रहस्यम् V¹⁻³
C¹,² )। दुःखप्रनाशं बहुपुण्ययुक्तम् । शिवालयं शाश्वतधर्मशास्त्रम् ॥
The clause इदं etc. is found in C¹,² as well ; but there
can be no doubt that this entire passage is a modern
addition. See the translation.
C, 1. ये द्विजास्त्रैवर्णिकाः स्वयमन्यैर्वा धारयिष्यन्ति ।... 3. V⁴ C¹,²
end with the above clause, but V¹⁻³ add a comment on
the latter part of it, which is followed by a strongly
corrupted Appendix, consisting mainly of an उत्तरा-
चरितम्, which is designated as the 101. chapter.