विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 160, कुल 392 में से
संदर्भ में पढ़ें१५२ ॥ विष्णुस्मृतौ ६७ । ६८ ॥
सायंप्रातस्त्वतिथये प्रदद्यादासनोदके ।
अन्नं चैव यथाशक्त्या सत्कृत्य विधिपूर्वकम् ॥ ४५ ॥
प्रतिश्रयं तथा शय्यां पादाभ्यङ्गं सदीपकम् ।
प्रत्येकदानेनाप्नोति गोप्रदानसमं फलम् ॥ ४६ ॥ ६७ ॥
चन्द्रार्कोपरागे नाश्नीयात् । १ । स्नात्वा मुक्तयोर-
श्नीयात् । २ । अमुक्तयोरस्तंगतयोः स्नात्वा दृष्ट्वा चाप-
रेडह्नि । ३ । न गोब्राह्मणोपरागेऽश्नीयात् । ४ । न
राज्ञो व्यसने । ५ । प्रवसिताग्निहोत्री यदाग्निहोत्रं हुतं
मन्येत तदाश्नीयात् । ६ । यदा हुतं मन्येत वैश्वदेवमपि
। ७ । पर्वणि च यदा हुतं मन्येत पर्व । ८ । नाश्नीया-
च्चाजीर्णे । ९ । नार्धरात्रे । १० । न मध्याह्ने । ११ ।
न संध्ययोः । १२ । नार्द्रवासाः । १३ । नैकवासाः
। १४ । न नग्नः । १५ । नोदके । १६ । नोत्कुटकः । १७ ।
LXVIII, 3. ॰गतयोर्दृष्ट्वा स्नात्वा C^{1,2}v. 5. राज्ञो V^4. N.
राजाव्यसने V^{1-3}; राजव्यसने C^{1,2}v Ap. 8. पर्व om. V^4. 16. न
जलस्थः । C^{1,2}. from the C. 17. नोत्प्लुटकः । C^{1,2}.
45... विधिपूर्वकं मधुपर्कविधिना ।... 46... पादयोः प्रक्षालन-
पूर्वकं घृतादिनाभ्यञ्जनम् । दीपो विवासोद्योताय ।...एषां प्रत्येकं दानेन...
LXVIII, 3...अपरे ऽह्नि... उदितौ दृष्ट्वा... चश्नीयात् ।... 4...तद्दिने
नाश्नीयात् ।... 9. अजीर्णे धमोद्वारे ।... 15. नग्नो दशविधः प्रागुक्तः ॥
16. जलस्थो नौकास्थो वा... 17. उत्कुटक ऊर्ध्वजानुः ॥