सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

४८८ वीरमित्रोदयस्य राजनीतिप्रकाशे
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥
ऋषीणां च नदीनां च कुलानां च महात्मनाम् ।
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥
द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी ।
क्षत्रियः शीलभाग्राजंश्चिरं पालयते महीम् ॥
सुवर्णपुष्पं पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥
बुद्धिश्रेष्ठानीत्यादि । कर्माणि बुद्धिमात्रेण राजसेवादायीनि
मन्त्रित्वादीनि श्रेष्ठानि । बाहुबलेन तादृशानि धनुर्द्धरत्वादी-
नि मध्यानि । जाङ्घिकत्वादीनि जघन्यानि अधमानि ।
भारवाहित्वादीन्यत्यधमानीत्यर्थः ।
आपद्धर्मे महाभारते,
बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः ।
जवेन सन्धिं कुर्वीत पूर्व्वान् पूर्व्वान् विमोचयन् ॥
यो धर्मविजिगीषुः स्याद्बलवान् पापनिश्चयः ।
आत्मनः सन्निरोधेन सन्धिं तेनापि रोचयेत् ॥
अपास्य राजधानीं वा तरेद्द्रव्येण वाऽऽपदम् ।
तद्भावयुक्तो द्रव्याणि जीवन्पुनरुपार्जयेत् ॥
तद्भावो राजभावः ।
यास्तु कोशबलत्यागाच्छक्यास्तारितुमापदः ।
कस्तत्राधिकमात्मानं सन्त्यजेदर्थधर्मवित् ॥
न त्वेवात्मा प्रदातव्यः शक्ये सति कथञ्चन ।
तथा,

अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते ।
तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥
तथा,
न च कश्चित्कृते कार्ये कर्तारं समवेक्षते ।
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥
कारयेत्, कुर्यात् ।
तथा,
कारणात्प्रियतामेति द्वेष्यो भवति कारणात् ।
अर्थार्थी जीवलोकोऽयं न कश्चित्कस्य चित्प्रियः ॥
आत्मार्थे सन्ततिस्त्याज्या राज्यं रत्नं धनानि च ।
अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना ॥
तथा,
ब्राह्मणा वै परं श्रेयो दिवि चेह च भारत ।
एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो ॥
पूजिताः शुभकर्त्तारः पूजयेत्तान्नराधिपः ।
तथा,
तत्रैव ब्रह्मदत्तोपाख्याने पूजन्या वाक्येषु ।
सान्त्वे प्रयुक्ते सततं कृतवैरे न विश्वसेत् ।
क्षिप्रं स वध्यते मूढो न हि वैरं प्रशाम्यति ॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नमपि मूलं निकृन्तति ॥
कामं विश्वासयेदन्यान् परेषां च न विश्वसेत् ।
तथा,
नास्ति वैरमतिक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् ।
विश्वासाद्वध्यते लोके तस्माच्छ्रेयोऽप्यदर्शनम् ॥
तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि ।
६२

४९० वीरमित्रोदयस्य राजनीतिप्रकाशे
सान्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः ॥
तथा,
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि ।
छन्नं सन्तष्ठते वैरं गूढोऽग्निरिव सागरे ॥
न हि वैराग्निरुद्भूतः कर्म चाप्यपराधजम् ।
शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् ॥
तथा,
सदा न विश्वसेद्राजा पापं कृत्वेह कस्य चित् ।
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते ॥
दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात् ।
उदाराणां तु सत्कर्म दैवं क्लीबा उपासते ॥
दत्त्वाभयं यः स्वयमेव राजा न तत्प्रमाणं कुरुतेऽर्थलोभात् ।
सर्वस्य लोकादुपलभ्य पापं सोऽधर्मबुद्धिर्निरयं प्रयाति ॥
दत्त्वाऽभयं स्वयं राजा प्रमाणं कुरुते यदि ।
स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन् ॥
माता पिता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः ।
सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ॥
पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पनः ।
तस्मिन् मिथ्याविनीतो हि तिर्यग्गच्छति मानवः ॥
यस्तु रञ्जयते राजा पौरजानपदान् गुणैः ।
न तस्य भ्रंशते राज्यं स्वयं धर्मानुपालनात् ॥
नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः ।
अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम् ॥
प्रजा यस्य विवर्द्धन्ते सरसीव महोत्पलम् ।
स सर्वफलभाग्राजा स्वर्गलोके महीयते ॥

प्रकीर्णके महाभारतीयनीतयः । ४९१
बलिना विग्रहो राजन्न कदाचित्प्रशस्यते ।
बलिना विग्रहो यस्य कुतो राज्यं कुतः सुखम् ॥
तथा,
वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः ।
श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ च वर्जयेत् ॥
सपत्नसंहिते कार्ये कृत्वा सन्धिं न विश्वसेत् ।
अपक्रामेत्ततः शीघ्रं कृतकार्यो विचक्षणः ॥
शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत् ।
नित्यशश्चोद्विजेत्तस्माद्गृहात्सर्पयुतादिव ॥
यथाबुद्धिः परिभवेत्तमतीतेन सान्त्वयेत् ।
अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ॥
अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् ।
अश्रुप्रमार्जनं चैव कर्तव्यं भूतिमिच्छता ॥
वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः ।
प्राप्तकालं तु विज्ञाय भिन्द्याद्घटमिवाश्मनि ॥
तथा,
नात्मच्छिद्रं रिपुर्विद्याद्विद्याच्छिद्रं परस्य तु ।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥
बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत् ।
वृकवच्चावलुम्पेत शरवच्च विनिष्पतेत् ॥
पानमक्षास्तथा नार्यो मृगया गीतवादिते ।
एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ॥
तथा,
देशकालौ समासाद्य विक्रमेत विचक्षणः ।
देशकालव्यतीतो हि विक्रमो निष्फलो भवेत् ॥
दण्डेनोपनतं शत्रुं यो राजा न नियच्छति ।

४९२ वीरमित्रोदयस्य राजनीतिप्रकाशे
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः ।
आमः स्यात्पक्वसङ्काशो न च शीर्येत कस्य चित् ॥
आशां कालवतीं कुर्यात् तां च विघ्नेन योजयेत् ।
विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः ॥
भीतवत्संविधातव्यं यावद्भयमनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहर्त्तव्यमभीतवत् ॥
योऽरिणा सह सन्धाय सुखं स्वपिति विश्वसन् ।
स वृक्षाग्रे प्रसुप्तो वा पतितः प्रतिबुद्ध्यते ॥
वा शब्द इवार्थे ।
ये सपत्नाः सपत्नानां सर्वांस्तानुपसान्त्वयेत् ।
आत्मनश्चापि बोद्धव्याश्चारा विनिहिताः परैः ॥
चारस्त्वविदितः कार्य आत्मनोऽथ परस्य च ।
पाखण्डांस्तापसादींश्च परराष्ट्रे प्रवेशयेत् ॥
उद्यानेषु विहारेषु प्रपास्वावसथेषु च ।
पानागारेषु वेशेषु तीर्थेषु च सभासु च ॥
वेशेषु, वेश्याजनाश्रयेषु ।
विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना ।
अथास्य प्रहरेत्काले किञ्चिद्विचलिते पदे ॥
अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् ।
भयं ह्यशङ्किताज्जातं समूलमपि कृन्तति ॥
अशङ्क्यं शङ्कानर्हम्
पुत्रा वा यदि वा भ्राता पिता वा यदि वा
अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिमिच्छता ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।

प्रकीर्णके महाभारतीयानीतयः । ४९३
उत्पथप्रतिपन्नस्य दण्डो भवति शासनम् ॥
तथा,
अमित्रं नैव मुञ्चेत वदन्तं करुणान्यपि ।
दुःखं तत्र न कर्त्तव्यं हन्यात्पूर्वापकारिणम् ॥
प्रहरिष्यन् प्रियं ब्रूयात्प्रहृत्यैव प्रियोत्तरम् ।
असिनापि शिरश्छित्त्वा शोचेत च रुदेत च ॥
निमन्त्रयीत सान्त्वेन सम्मानेन तितिक्षया ।
लोकाराधनमित्येतत्कर्त्तव्यं भूतिमिच्छता ॥
इत्येवमादीनि नीतिशास्त्राणि सर्वथा शृणुयादिति शिवम् ।
प्रत्याशं परिवर्द्धतेऽर्थिजनतादैन्यान्धकारापहे
श्रीमद्वीरमृगेन्द्रदानजलधिर्यद्दृक्चन्द्रोदये ।
राजादेशितमित्रमिश्रविदुषस्तस्योक्तिभिर्निर्मिते-
ग्रन्थेऽस्मिन् खलु राजनीतिविषयः पूर्त्तिं प्रकाशोऽगमत् ॥
इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजि-
तचरणकमल—
श्रीमन्महाराजाधिराजप्रतापरुद्रतनूज—
श्रीमन्मधुकरसाहसूनु—
श्रीमन्महाराजाधिराजचतुरुदधिवलयवसुन्धराहृदयपुण्डरी-
कविकासदिनकर—
श्रीवीरसिंहदेवोद्योजितश्रीहंसपण्डितात्मज—
श्रीपरशुराममिश्रसूनुसकलविद्यापारावारपारीणधुरीण—
जगद्दारिद्यमहागजपारीन्द्रविद्वज्जनजीवातु—
श्रीमान्मित्रमिश्रकृते वीरमित्रोदयाभिधनिबन्धे
राजनीतिप्रकाशः पूर्त्तिमगात् ।

The provided image is completely blank and contains no visible text, diagrams, or manuscript content to transcribe.