सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

१४० वीरमित्रोदयस्य राजनीतिप्रकाशे
नस्याप्यवयवप्रसङ्गात, सामान्यत एव प्राप्तेः । अनेन, तच्छ्राद्धादि-
विधानेन । मातापितृवृत्तिः, मृतराज्ञो मातापित्रोर्भरणादिरूपा ।
व्याख्याता, अवश्यं कर्त्तव्येत्यर्थः । अन्याश्च राजपत्न्यः, तद-
वरोधवासिन्योऽविवाहिता अपि, एता ग्रासाच्छादनं लभेरन्निति,
अनेन पूर्वोक्तं नां भरणविधानं पूर्वराजकृततद्वृत्यनुच्छेदपर-
म् । तत्रापि मातापित्रोर्यावती पूर्वराजकृता वृत्तिः सा सर्व्वापि
दातव्या, राजमहिषीपितृव्यमातुलानां तु भरणं मानपुर-
सरम् । अवश्यं तद्धरणीयजनपोषणं यथा भवति तथा विधे-
यम् । तदवरोधवासिनीनामन्यासां विवाहितानामविवाहितानां
च ग्रासाच्छादनमात्रं दद्यात्, पृथक्पृथङ्निर्देशात् । अत एव
सर्वशेषे "तद्गामित्वादृक्थस्य" इति हेतूपन्यासः । रिक्थस्य
तत्तदायस्य । तद्गामित्वात् नूतनराजगामित्वात् । क्लीवोन्मत्तान् ।
पूर्वराजान्तःपुरादावधिकृतान् क्लीवान्, उन्मादोऽसावधानता सा
च रोगवयःप्रभृतिदोषकृता तद्युक्ततया पूर्वराजेनावश्यभृतान् ।
आपस्तम्बः, आवसथे सवेशंश्रोत्रियानतिथीन् वासये-
त्तेषां यथागुणमावसथाः शय्याऽन्नपानं च देयं गुरुनमात्यांश्च
नातिजीवेत् । इति ।
देयं, राज्ञेतिशेषः । नातिजीवेत्, अतिक्रम्य न जीवेत् ।
गुरूणाममात्यानां च जीविकां कृत्वैव स्वजीविकां कुर्य्यादित्यर्थः।
मनुः,
श्रोत्रियं व्याधितार्त्तौ च बालवृद्धावकिञ्चनौ ।
महाकुलीनमार्य्यं च राजा सम्पूजयेत्सदा ॥ इति ।
राजेत्यनुवृत्तौ गौतमः,
विभृयाद्ब्राह्मणांश्छ्रोत्रियान्निरुत्साहांश्चाब्राह्मणानकरांश्च-

विहिता राजधर्माः । १४१
पकुर्वाणांश्च । इति ।
निरुत्साहान्, कर्त्तव्यार्थे स्थिरः प्रयत्न उत्साहस्तद्रहितान्,
अलसानितियावत् । अब्राह्मणान्, ब्राह्मणातिरिक्तान् क्षत्रिया-
दीन् । अथ वा अब्राह्मणान् श्रोत्रियत्वादिगुणरहितान् ब्राह्म-
णान् । अकरान्, येभ्यः करो न गृह्यते, किन्तु मासि मास्येकै-
कदिनं कर्म कार्यते तादृशान् शिल्प्यादीन् । अत एव-
मनुः,
यस्य राज्ञस्तु विषये ब्राह्मणः सीदति क्षुधा ।
तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति ॥
श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् ।
संरक्षेत्सर्वतश्चैनं पिता पुत्रमिवौरसम् ॥
संरक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम् ।
तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च ॥ इति ।
अत्र हि मनुवाक्ये-“ब्राह्मणः सीदति क्षुधा” इति प्रथम-
मुपक्रम्य, “श्रुतवृत्ते विदित्वास्य” इत्यनेन श्रोत्रियस्यैवाव-
श्यभरणीयत्वमुपसंहृतम् । तदेकमूलकतया गौतमवाक्येऽपि
श्रोत्रियस्यावश्यभरणीयत्वमुक्त्वा तदतिरिक्तस्य जातिमा-
त्रब्राह्मणस्य भरणे निरुत्साहत्वं हेतुत्वेनोपन्यस्तं वेदितव्यम् ।
शङ्खलिखितौ, राजन्यवैश्यावप्यजीवन्तौ राजानमुपति-
ष्ठेयातां तावुभौ शक्तितः संविभक्तावुपकुर्यातां स्वस्वधर्मानुष्ठा-
नेन शिल्पिनः कारवश्च शूद्राः । इति ।
अजीवन्तौ, स्वस्ववृत्त्या जीविकामलभमानौ । एतद्वाक्ये-
ऽपि- संविभक्तौ कृतजीविकौ, तावुभौ राजन्यवैश्यौ, राज्ञः
शक्तितो यथासामर्थ्यमुपकुर्याताम्, अपिशब्दात् शिल्प्यादयः
शूद्रा अपि जीविकामलभमाना राज्ञा कृतसंविभागाः, स्वस्वध-

१४२ वीरमित्रोदयस्य राजनीतिप्रकाशे
र्मानुष्ठानेन राज उपकुर्युरित्युक्तम् । तथा चोपकुर्वतामेव क्षत्रि-
यादीनां त्रयाणां वर्णानां राज्ञोऽवश्यभरणीयत्वं, न त्वनुपकुर्व-
ताम् । पूर्वोदाहृतगौतमवाक्ये निरुत्साहांश्च ब्राह्मणानित्यनेना-
नुपकुर्वतामपि जातिमात्रब्राह्मणानामवश्यभरणीयत्वे निरुत्साहत्वं
हेतुरुपन्यस्तः । अन्यथा हि अनुपकुर्वतामपि स्वराष्ट्रवर्त्तिनां
सर्वेषामवश्यभरणीयत्वेनैतेषामभरणे राज्ञो महान् दोषोऽश-
क्यानुष्ठानता च स्यात् ।
हरदत्तस्तु पूर्वोदाहृतं गौतमवाक्यमेवं व्याख्यातवान् ।
बिभृयात् श्रोत्रियान् ब्राह्मणान्, श्रोत्रिया अधीतवेदाः
तान्, ब्राह्मणानन्नादिदानेन बिभृयात् । निरुत्साहांश्चाब्रा-
ह्मणान्, जीवनार्थं यत्नं कर्तुमसमर्थान् अब्राह्मणान्
क्षत्रियादीनपि बिभृयात्, किं पुनर्ब्राह्मणान् । पूर्वसूत्रे तु अ-
र्जने समर्थानपि श्रोत्रियान् स्वयमाहूय बिभृयादिति । अकरांश्च,
येभ्यः पूर्वैः करो न गृहीतस्तान् अकरान्, बिभृयात्, तेभ्यः
स्वयं करं नोत्पादयेत् । उपकुर्वाणांश्च, अधीयाना ब्रह्मचारिण
उपकुर्वाणास्तांश्च बिभृयादन्नादिदानेन, यद्यर्थिनः, स्वयंजी-
वनवतश्च करादिव्यावर्त्तनेन । उपकुर्वाणा, लोकोपकारिणो
वैद्यादय इति केचित् ।
यमः,
अभेद्यमच्छेद्यमनादिमक्षयं निधिं पुराणं पालयन्ति ये ।
महीपतिस्तानभिपूज्य वै द्विजान् भवेदजेयो दिवि देवराडिव ॥
पुराणं निधिं, वेदरूपम् ।
शक्यं हि कवचं भेत्तुं नाराचेन शरेण वा ।
अपि वज्रसहस्रेण ब्राह्मणाशीः सुदुर्भिदा ॥ इति ।
तथा,

२. द्वितीय प्रकाश: प्रजा-पालन, कर-व्यवस्था (राजस्व), सीमा-रक्षा एवं दुर्ग-निर्माण

विहिता राजधर्माः। १४३
पूर्वरात्रान्तरात्रेषु द्विजा यस्य ह्यधीयते ।
स राजा सह राष्ट्रेण वर्द्धते ब्रह्मतेजसा ॥
राजा यत्कुरुते पापं प्रमादात्सह तेन च ।
वसन्तो ब्राह्मणा राष्ट्रे जप्येन शमयन्ति तत् ॥
ब्राह्मणान् पूजयेन्नित्यं प्रातरुत्थाय भूमिपः ।
ब्राह्मणानां प्रसादेन वसन्ति दिवि देवताः ॥
यदरुच्या हरन्त्येते शुभं वा यदि वाऽशुभम् ।
तत्तथा नान्यथा कुर्याद्ब्राह्मणा ह्यत्र कारणम् ॥ इति ।
मनुः,
नाब्रह्म क्षत्रमृध्नोति१ नाक्षत्रं ब्रह्म वर्द्धते ।
ब्रह्म क्षत्रेण संयुक्तमिह चामुत्र वर्द्धते ॥ इति ।
यमः,
राजा वृक्षो ब्राह्मणास्तस्य मूलं पौराः पर्णं मन्त्रिणस्तस्य शाखाः।
तस्माद्राज्ञा ब्राह्मणा रक्षणीया मूले गुप्ते नास्ति वृक्षस्य नाशः ॥
आसन्नं हि दहत्यग्निर्दूराद्दहति ब्राह्मणः ।
प्ररोहत्यग्निना दग्धं ब्रह्मदग्धं न रोहति ॥
ब्राह्मणानां च शापेन सर्वभक्षो हुताशनः ।
समुद्रश्चाप्यपेयश्च विफलस्तु पुरन्दरः ॥
विफलः वृषणरहितः ।
चन्द्रमा राजयक्ष्मी च पृथिव्यामूषराणि च ।
वनस्पतीनां निर्यासो दानवानां पराजयः ॥
अनन्तान्येव तेजांसि ब्राह्मणानां महात्मनाम् ।
तस्माद्विप्रेषु नृपतिः प्रणमेन्नियमेन च ॥ इति ।
महाभारते,
१ वर्धते इत्यर्थः ।

१४४ वीरमित्रोदयस्य राजनीतिप्रकाशे
अष्टौ पूर्वनिमित्तानि नरस्य विरमिष्यतः ।
ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणांश्च विरुद्ध्यते ॥
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति ।
रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥
नैतान् स्मरति कृत्येषु याचितश्चाभ्यसूयति ।
एतान् दोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् ॥
तथा तत्रैव भीष्मवाक्यम्—
एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत ।
ब्राह्मणानामनुज्ञातमत्यन्तं सुखमिच्छता ॥
कर्तव्यं पार्थिवेनेह तद्विद्धि भरतर्षभ ।
श्रोत्रियान् स्नातकान् वृद्धान्नित्यमेवाभिपूजयेत् ।
पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् ।
सान्त्वेन भोगदानेन नमस्कारैस्तथैज्यया ॥
एतत्कृत्यतमं राज्ञां नित्यमेवाभिलक्षयेत् ।
यथात्मानं यथा पुत्रांस्तथैतान् परिपालयेत् ॥
ये चाप्येषां पूज्यतमास्तान्नृपः प्रतिपूजयेत् ।
तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते ॥ इति ।
राज्ञां खड्गादिषु देवीपूजनमावश्यकं सर्वदा कर्तव्य-
त्वेनोक्तम्—
देवीपुराणे,
नामभेदेन सा भिन्ना अभिन्ना परमार्थतः ।
शिवा नारायणी गौरी चर्चिका विमला उमा ॥
सा वन्द्या पूजनीया च सततं तत्तद्भावितैः ।
विजयार्थं नृपैः खड्गे छुरिकापादुके पटे ॥
चामुण्डां चित्ररूपां च लिखितां चाथ पुस्तके ।

विहिता राजधर्माः । १४५

ध्वजे वा कारयच्छत्रे स नृपो विजयेद्रिपून् । इति ।
कार्त्तिकेयपूजापि सर्वदा कर्त्तव्यत्वेन, विशेषतश्च रणे प्र-
स्थितस्य राज्ञ आवश्यकत्वेनोक्ता भविष्यपुराणे—
राज्ञां पूज्यः सदा प्रोक्तः कार्त्तिकेयो महीपते ।
कार्त्तिकेयादृते राज्ञां नान्यं पूज्यं प्रचक्षते ॥
सङ्ग्रामे गच्छमानो यः पूजयेत्कृत्तिकासुतम् ।
स शत्रूञ्जयते वीरो यथेन्द्रो दानवान् रणे ॥
तस्मात्सर्वप्रयत्नेन पूजयेच्छङ्करात्मजम् ।
पूजयानस्तु तं भक्त्या चम्पकैर्विविधैर्नृप ॥
मुच्यते सर्वपापेभ्यः सद्यो गच्छेच्छिवालयम् ।
नान्यं पूज्यमित्यनेन कार्त्तिकेयपूजाविधानस्यावश्यकत्वम्,
न त्वन्यदेवतापूजानिषेधः । उदाहृतदेवीपुराणवचनेन देवीपू-
जायाः, कूर्मपुराणादौ शिवविष्ण्वादिदेवतापूजाया अपि राज-
कर्तृकत्वेन विशिष्ट्याभिधानात् ।
राजेत्यनुवृत्तौ अन्यदपि कर्त्तव्यत्वेनोक्तं ब्रह्मपुराणे—
नित्यं सन्निहितान् देवान्मुनीन् नागांश्च पूजयेत् ।
पिशाचेभ्यो बलिं दद्यात्सन्ध्याकाले च नित्यशः ॥ इति ।
उक्तवृत्तस्य राज्ञः फलमाह मनुः—
एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।
विस्तार्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ इति ।
कात्यायनोऽपि—
आत्मीये संस्थिता धर्मे नृपाः शक्रत्वमाप्नुयुः ।
अवीचिवासिनो ये तु व्यपेताचारिणः सदा ॥
ये तु व्यपेताचारिणः त्यक्तवर्णाश्रमधर्मास्ते सदा बहु-
कालपर्यन्तमवीचिनामकनरकवासिनः ।
१९

१४६ वीरमित्रोदयस्य राजनीतिप्रकाशे
गच्छेत्सम्यगविज्ञाय वशं क्रोधस्य यो नृपः ।
वसेत्स नरके घोरे कल्पान्तं तु न संशयः ॥
सम्यगविज्ञाय, स्वक्रोधनिमित्तं परापराधमनिर्णीय ।
कर्त्तव्यान्तरमप्युक्तं गरुडपुराणे—
मनस्तापं न कुर्वीत आपदं प्राप्य पार्थिवः ।
समबुद्धिः प्रसन्नात्मा सुखदुःखसमो भवेत् ॥
वीराः कष्टमनुप्राप्ता न भवन्ति विषादिताः ।
प्रविश्य वदनं राहोर्विनोदति पुनः शशी ॥
तथा,
कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः ।
स गृह्णाति विषोन्मादं कृष्णसर्पेण दंशितः ॥
तथा,
लीलां करोति यो राजा भृत्ये सज्जनगर्विते ।
स वादे विग्रहे क्षिप्रं रिपुभिः परिभूयते ॥
लीलां क्रीडाम् । वादे, वाक्कलहे । विग्रहे, शस्त्रसाध्ये
सङ्ग्रामे ।
तथा,
तुल्यार्थं तुल्यसम्बन्धं मर्मज्ञं व्यवसायिनम् ॥
अर्द्धराज्यहरं भृत्यं यो न हन्यात्स हन्यते । इति
इति राज्ञो विहितधर्माः ।
अथ राज्ञः प्रतिषिद्धा धर्माः,
मत्स्यपुराणविष्णुधर्मोत्तरयोः,
मृगयां पानमक्षांश्च वर्जयेत्पृथिवीपतिः ।
एतान्यासेवमानास्तु विनष्टाः पृथिवीक्षितः ॥

प्रतिषिद्धा राजधर्माः । १४७
बहवो नृपशार्दूल सङ्गया येषां न विद्यते ।
दिवास्वप्नं वृथाऽट्यां च विशेषेण विवर्जयेत् ॥
वृथाऽट्या, वृथाऽटनम् ।
वाक्पारुष्यं न कर्त्तव्यं दण्डपारुष्यमेव च ।
परोक्षनिन्दा च तथा वर्जनीया महीक्षिता ॥
अर्थस्य दूषणं राजा द्विपकारं विवर्जयेत् ।
अर्थानां दूषणं चैकं तथाऽर्थेन च दूषणम् ॥
प्राकाराणां समुच्छेदो दुर्गादीनामसत्क्रिया ।
अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ॥
अदेशकाले यद्दानमपात्रे दानमेव च ।
अर्थेन दूषणं प्रोक्तमसत्कर्मप्रवर्त्तनम् ॥
तथा,
न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते ।
न भाव्यं दारुणेना तितीक्ष्णादुद्विजते जनः ॥
काले मृदुर्यो भवति काले भवति दारुणः ।
राजा लोकं दयाऽपेक्षी तस्य लोकद्वयं भवेत् ॥
भृत्यैः सह महीपालः परिहासं विवर्जयेत् ।
भृत्याः परिभवन्तीह नृपं हर्षुकसङ्कथम् ॥
व्यसनानि च सर्वाणि भूपतिः परिवर्जयेत् ।
लोकसङ्ग्रहणार्थाय भृतकव्यसनी भवेत् ॥
शौण्डीरस्य नरेन्द्रस्य नित्यमुद्रिक्तचेतसः ।
जना विरागमायान्ति सदा दुःसेव्यभाविताः ॥
व्यसनानि, पुरुषार्थविक्षेपकाणि मृगयादीनि ।
तान्याह मनुः—
मृगयाऽक्षा दिवास्वापः परिवादः स्त्रियो मदः ।

१४८ वीरमित्रोदयस्य राजनीतिप्रकाशे
तौर्यत्रिकं वृथाऽट्या च कामजो दशको गणः ॥
तौर्यत्रिकं नृत्यगीतवाद्यानि । एतत्त्रिकमादाय दश काम-
जानि व्यसनानि ।
पैशुन्यं साहसं द्रोह ईर्ष्याऽसूयाऽर्थदूषणम् ।
वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥
वाक्पारुष्यं दण्डजं च पारुष्यमादायाष्टविधत्वं द्रष्टव्यम् ।
द्वयोरप्येतयोर्मूलं यं पूर्व कवयो विदुः ।
तं यत्नेन जयेल्लोभं तज्जये तावुभौ गणौ ॥
दश कामसमुत्थानि तथाऽष्टौ क्रोधजानि च ।
व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥
कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः ।
वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥
आत्मनैव वियुज्यते, मरणमापद्यत इत्यर्थः ।
तत्र सप्त कष्टतमानि ।
यथाऽऽह मनुः—
पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् ।
एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥
दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे ।
क्रोधजेऽपि गणे विद्यात्कष्टमेतत्त्रिकं सदा ॥
सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः ।
पूर्वपूर्वं गुरुतरं विद्याद्व्यसनमात्मनः ॥
परिवादः, परदोषकथनम् । वृथाऽट्या, वृथाऽटनम्। पैशुन्यम्,
अनभिव्यक्तदोषाविष्करणम् । साहसम्, साथोर्बन्धनादिनिग्रहः ।
द्रोहः, ब्रह्मवधः । ईर्ष्या, परगुणासहिष्णुता । परगुणेषु दोषावि-
ष्करणमसूया । अर्थदूषणम्, अर्थापहारो देयानामदानं च । वा-

प्रतिषिद्धा राजधर्माः । १४९
क्पारुष्यम्, आक्रोशादि। दण्डपारुष्यम्, अल्पापराधेऽपि बहुला-
र्थग्रहणं, शारीरदण्डो वा ।
व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते ।
व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः ॥
अधोऽधो व्रजति, नरकं प्रतिपद्यत इत्यर्थः । नरकाणां पा-
ताल एव वर्णितत्वात् ।
विष्णुधर्मोत्तरे—
न गाहेज्जनसम्बाधं न चाज्ञातं जलाशयम् ।
नापरीक्षितपूर्वं तु पुरुषैराप्तकारिभिः ॥
नारोहेत्कुञ्जरं व्यालं नादान्तं तुरगं तथा ।
व्यालम्, दुष्टम् ।
नाविज्ञातां स्त्रियं गच्छेन्नैव चाशुष्कवाससम् ।
अशुष्कवाससम्, आर्द्रवाससं, रजस्वलामित्यर्थः ।
तथा,
नारोहेद्विषमां नावं नापरीक्षितनाविकाम् ।
तथा,
देवतासु न वोच्छिन्द्यात्पूर्वदायान् कथञ्चन ।
प्राक्स्थितं च न चोच्छिन्द्यान्न चोच्छिन्द्यात्तथा जनात् ॥
उच्छेत्ता नरकं याति सह पूर्वैः पितामहैः ।
अपि स्वल्पं न हर्तव्यं देवद्रव्यं विजानता ॥
स्वल्पस्यापि फलं घोरं यस्माज्जन्मान्तरे भवेत् ।
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥
देवद्रव्यापहरणान्नरकं प्रतिपद्यते ।
सन्तीह देवताः सौम्याः सन्त्युग्राश्चापि भारत ॥

१६० वीरमित्रोदयस्य राजनीतिप्रकाशे
दर्शयन्ति रुषं सौम्याः राज्यभ्रंशादिभिर्नृणाम् ।
अस्मिंल्लोके रुषं क्रूरा नैव कुर्वन्ति देवताः ॥
तासां वित्तापहरणाद्राजा नरकमृच्छति ।
पूर्वैः पितामहैः सार्द्धं प्रागुक्तं कालमेव तु ॥
देवद्रव्यापहरणं नैव जातु भवेद् वृथा ।
सर्वस्वरहितान् कृत्वा देवद्रव्यापहारिणः ॥
अङ्कयित्वा द्विजश्रेष्ठ स्वराष्ट्राद्विप्रवासयेत् ।
त्रैविद्या वणिजो वैश्या लिङ्गिनो देवपालकाः ॥
तथा तत्प्रतिबद्धाश्च न कुर्युः कलहं मिथः ।
तेषां तन्नायकः स्वामी निग्रहानुग्रहे भवेत् ॥
रागद्वेषवियुक्तस्तु विवास्यश्चान्यथा भवेत् ।
तथा तत्रैव,
ब्रह्मस्वं नैव चाऽऽदद्याद्ब्रह्मस्वं पालयेत्तथा ।
ब्रह्मस्वहरणाद्राम नरके पच्यते नरः ॥
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
विषमेकाकिनं हन्ति ब्रह्मस्वं सप्र पूरुषान् ॥
ब्रह्मस्वं प्रणयाद् भुक्तं हिनस्त्यासप्तमं कुलम् ।
द्रोहाद् भुक्तं तदेवेह कुलानां पातयेच्छतम् ॥
सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलम् ।
हरन्नरकमाप्नोति यावदाभूतसम्प्लवम् ॥
अत्र सुवर्णशब्दः परिमाणविशिष्टसुवर्णवचनः ।
दृष्ट्वाऽविद्यं दुराचारं ब्राह्मणं न द्विषेत्क्वचित् ॥
ब्राह्मणानां परीवादान्नाशमाप्नोति मानवः ।
न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् ॥
नैवास्ति ब्राह्मणवधात्पापं गुरुतरं क्वचित् ।

प्रतिषिद्धा राजधर्माः । १५१
ब्रह्महा नरकं याति यावदाभूतसम्प्लवम् ॥
वर्षाणामयुतं राम पच्यते चावगूरिते ।
शोणितं यावतः पांसून् सङ्गृह्णाति द्विजन्मनाम् ॥
क्षतात्तावन्ति वर्षाणि क्षतकृन्नरके वसेत् ।
उपद्रुतो द्विजो येन त्यजेज्जीवितमात्मनः ॥
ब्रह्महत्या भवेत्तस्य नात्र कार्या विचारणा । इति ।
विष्णुः —
स्वदत्तां परदत्तां च भुवं नापहरेद्ब्राह्मणेभ्यः । इति ।
मनुः —
परामप्यापदं प्राप्तो ब्राह्मणं न प्रकोपयेत् ।
परामपि, कोषक्षयेण बलवद्राजविरोधेन चोत्कृष्टाम्, आपदं
प्राप्तो राजा ब्राह्मणं न प्रकोपयेत् । तदीयधनाऽऽदानेन तदवग-
णनया वा तन्मन्युं नोत्पादयेत् ।
ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम् ॥
यैः कृतः सर्वभक्षोऽग्निरपेयश्च महोदधिः ।
क्षयी चाप्यायितः सोमः को न नश्येत्प्रकोप्य तान् ॥
लोकानलोकान् कुर्युस्ते लोकपालांश्च कोपिताः ।
देवान् कुर्युरदेवांश्च कः क्षिण्वंस्तान् समृध्नुयात् ॥
यान्समाश्रित्य तिष्ठन्ति देवा लोकाश्च सर्वदा ।
ब्रह्मैव च धनं येषां को हिंस्यात्तान् जिजीविषुः ॥
प्रणीतश्चाप्रणीतश्च यथाऽग्निर्दैवतं महत् ।
एवं विद्वानविद्वांश्च ब्राह्मणो दैवतं महत् ॥
श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति ।
हूयमानश्च यज्ञेषु भूय एवाभिपूज्यते ॥
एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु ।

१५२ वीरमित्रोदयस्य राजनीतिप्रकाशे
सर्वथा ब्राह्मणः पूज्यो दैवतं परमं हि तत् ॥
क्षत्रस्यापि प्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः ।
ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्मसम्भवम् ॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥
“परामप्यापदं प्राप्त” इत्यस्य निषेधस्य “ते ह्येनं कुपिता
हन्युः”इत्यारभ्य “स्वासु योनिषु शाम्यति”इत्यन्तः सर्वोऽयमर्थ-
वादः । ब्रह्मैव च धनं येषामिति । ब्रह्मैव वेद एव येषां ब्राह्मणा-
नाम् अभ्युदयसाधनतया याजनाध्यापनादिना धनार्जनोपाय-
त्वेन धनम् अवश्यापेक्षितमवश्यरक्षणीयं च, तान् ब्राह्मणान्
जिजीविषुर्जीवितुमिच्छन् को हिंस्यात्पीडयेत् । अपराधिनोऽपि
ब्राह्मणस्य दण्डनिवृत्त्यर्थं स्तुतिरियम् ।
मनुः—
द्यूतं समाह्वयं चैव राजा राष्ट्रात्निवारयेत् ।
राज्यान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् ॥
प्रकाशमेतत्तास्कर्यं यद्देवनसमाह्वयौ ।
तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान भवेत् ॥
अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते ।
प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ॥
द्यूतं समाह्वयं चैव यः कुर्यात्कारयेत वा ।
तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः ॥
कितवान् कुशीलवान् चौरान् पाखण्डस्थांश्च मानवान् ।
विकर्मस्थान् शौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात् ॥
एते राष्ट्रे वर्तमाना राज्ञः प्रच्छन्नतस्कराः ।

राज्ञो दिनकृत्यम् । १५३
विकर्मक्रियया नित्यं बाधन्ते भाद्रिकाः प्रजाः ।
द्यूतमेतत्पुराकल्पे दृष्टं वैरकरं महत् ॥
तस्मात् द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ।
प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः ॥
तस्य दण्डविकल्पः स्याद्यथेष्टं नृपतेस्तथा ।
देवनसमाह्वयावित्यत्र देवनं द्यूतं च पर्यायौ । अप्राणिभिः,
अक्षशलाकादिभिः । प्राणिभिः, मेषकुक्कुटादिभिः । तत्रापि प-
णपूर्वं यत्क्रियते तदेव द्यूतं समाह्वयश्च । अपणपूर्वके तु न
द्यूतसमाह्वयशब्दौ प्रवर्त्तेते । लोके तयोः क्रीडाशब्देनैव व्यव-
हारात् । अत एव तयोर्लोके विगानाभावः । कुर्यात्कारयीत
वेत्यत्र यः कितवो द्यूतसमाह्वयौ कुर्यात्, यश्च सभिकः का-
रयीत, तान् सर्वान् राजा अपराधमपेक्ष्य घातयीत हस्तच्छेदा-
दिना योजयीतेति वाक्यार्थः । द्विजलिङ्गिनः, यज्ञोपवीततिलका-
दिब्राह्मणचिह्नधारिणः । यथेष्टम्, अपराधमपेक्ष्य राज्ञो यथा
इच्छा भवति शारीरे दण्डे, द्रव्यग्रहणरूपे वा दण्डे, तथा स्यात्,
स धर्म इत्यर्थः ।
इति राज्ञो निषिद्धा धर्माः ।
अथाभिषिक्तस्य राज्ञो दिनकृत्यम् ।
विष्णुधर्मोत्तरे—
राम उवाच ।
अजस्रं कर्म मे ब्रूहि राज्ञो राजीवलोचन ।
यच्च कार्यं नरेन्द्राणां तथा च प्रतिवासरम् ॥
२०

१५४ वीरमित्रोदयस्य राजनीतिप्रकाशे
पुष्कर उवाच ।
द्विमुहूर्त्तावशेषायां रात्रौ निद्रां त्यजेद् बुधः ।
वेणुवीणामृदङ्गानां पटहानां च निस्वनैः ॥
वन्दिनां निस्वनैश्चैव तथा मङ्गलवादिनाम् । इति ।
तथा च शङ्खलिखितौ-
राज्ञः शङ्खपटहतूर्येण प्रस्वापोत्थानम् । इति ।
तथा याज्ञवल्क्यः-
संविशेत्तूर्यघोषेण प्रतिबुद्ध्येत्तथैव च ।
शास्त्राणि चिन्तयेद् बुद्ध्या सर्वकर्त्तव्यतां तथा ॥
प्रेषयेत ततश्चारान् स्वेष्वन्येषु च सादरम् । इति ।
तूर्यघोषेण, वेणुवीणामृदङ्गादिशब्देन । संविशेत्, स्वापार्थं
गृहे प्रविशेत् । तथैव ब्राह्मे मुहूर्ते उत्थाय श्रुतिस्मृतिवचांसि
तदर्थावगमोपायांश्च सर्वकार्याणि च चिन्तयेत् । चारान्, वणि-
ग्वैद्यपरिव्राजकबौद्धदिगम्बरादिरूपधारिणो निगूढान् परचेष्टा-
वेदिनः । स्वेषु, स्वसामन्तादिषु । परेषु, मित्रादिमहीपतिषु ।
प्रेषयेत, तच्चिकीर्षितज्ञानाय ।
वृद्धवासिष्ठोऽपि-
त्यक्तनिद्रोदयात्पूर्वं चिन्तयेदात्मनो हितम् ।
गीततूर्यरवैः सार्द्धं निजेच्छातो नृपोत्तमः ॥
त्यक्तनिद्र उदयादिति वक्तव्ये छान्दसः सन्धिः ।
विष्णुधर्मोत्तरे-
ततः पश्येन्महीपालो गूढांश्च पुरुषान्निशि ।
विज्ञायन्ते न ये लोके तदीया इति केन चित् ॥
निशि, रात्रिशेषे ।
आयव्ययस्य श्रवणं ततः कार्यं यथाविधि ।

तथा याज्ञवल्क्यः—
कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम् ।
व्यवहारांस्ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः ॥
कृतरक्षः, पुरस्यात्मनश्च रक्षां विधाय प्रतिदिनं प्रातरुत्था-
याधिकृतैः क्रियमाणावायव्ययौ स्वयमेव पश्येत् । स्वयंग्रहण-
मादरार्थम् । स्नानं सकलमाध्याह्निकोपलक्षणम् । कामतः,
यथारुचि ।
मनुः—
अहन्यहन्यवेक्षेत कर्मान्तान् वाहनानि च ।
आयव्ययौ च नियतावाकरान् कोशमेव च ॥
वृद्धवासिष्ठः—
मौनी मूत्रपुरीषे तु ततः कुर्यादुदङ्मुखः ।
मनुः—
उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
हुत्वाग्निं ब्राह्मणांश्चार्च्य प्रविशेत्तु सभां शुभाम् ॥
स्मृत्यन्तरेऽपि-
प्रातरुत्थाय नृपतिः कुर्याद्दन्तस्य धावनम् ।
स्नानशालां समागत्य स्नात्वा पूतेन वारिणा ॥
अर्घं दत्त्वा तु देवाय भास्कराय समाहितः ।
ततोऽलङ्कृतगात्रः सन् वक्त्रमालोक्य मन्त्रवत् ।
घृतपात्रं तु विप्राय दद्यात्सकनकं नृपः ॥
मन्त्रस्त्वग्रे वक्ष्यते । मुखावलोकनं चार्थाद् घृत एव ।
विष्णुधर्मोत्तरे-
वेगोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत् ।
दत्ताभ्यङ्गः प्रदोषे तु कल्पमुत्सादितस्ततः ॥

१६६ वीरमित्रोदयस्य राजनीतिप्रकाशे
वेगाः, मूत्रपुरीषादयः। कल्यम्, प्रातः। उत्सादितः, कृतोद्वर्तनः।
स्नानं कुर्यात्ततः पश्चाद्दन्तधावनपूर्वकम् ।
औषधैर्मन्त्रपूतैस्तु पानीयैर्विविधैः शुभैः ॥
सन्ध्यामुपास्य प्रयतः कृतजप्यः समाहितः ।
अग्न्यगारं प्रविश्याथ वह्नीन् पश्येत्पुरोधसा ॥
हुतान्सम्यक्ततः कुर्याद्वासुदेवस्य चार्चनम् ।
दुःस्वप्नशमनं कर्म तस्य कुर्यात्पुरोहितः ॥
स्वयं चोपसदे वह्नौ पवित्रान् जुहुयान्नृपः ।
तर्पयेदुदकैर्देवान् पितॄनथ यथाविधि ।
दद्यात् द्विजातये धेनुं सवस्त्रां च सकाञ्चनाम् ॥
शक्त्या धनैः पूजयित्वा दत्ताशीः सततं द्विजैः ।
अनुलिप्तस्ततः स्रग्वी सुवासाश्चाप्यलङ्कृतः ॥
दर्पणे च मुखं पश्येत्ससुवर्णे च सर्पिषि ।
आज्यं प्रसन्नं सुरभि यदि स्याद्विजयो भवेत् ॥
दीयमाने च दुर्भेदे पतिते च भयं भवेत् ।
विकृतं चेन्मुखं पश्येद्राजा मृत्युमवाप्नुयात् ॥
सुप्रभं च यदा पश्येत्तदा तस्य शुभं भवेत् ।
तथा,
यस्तु कल्यं समुत्थाय मुखमाज्ये निरीक्षते ।
तस्यालक्ष्मीः क्षयं याति वर्द्धते तेजसा श्रिया ॥
ततश्च शृणुयाद्राजा सांवत्सरमुखोद्गतम् ।
दिवसं तिथिनक्षत्रं सर्वाशुभविनाशनम् ॥
भिषजां च वचः कुर्यात्तेजस्त्वारोग्यवर्द्धनम् ।
मङ्गलालम्भनं कृत्वा ततः पश्येद् गुरून्नृपः ॥
कृताशीर्गुरुभिः पश्चाद्राजा गच्छेत्सभां ततः ।

राज्ञो दिनकृत्यम् । १५७
आथर्वणपरिशिष्टे तु घृतावेक्षणस्य कश्चित्प्रकारविशे-
षोऽप्युक्तः । स यथा—
अथ घृतावेक्षणं वक्ष्यामः, प्रातः शङ्खदुन्दुभिनादेन
ब्रह्मघोषेण वा प्रतिबोधेत राजा । शयनगृहादुत्थाय राजा-
ऽपराजितां दिशमभिनिष्क्रम्य जयेत् । अथ पुरोहितः स्नातो-
ऽनुलिप्तः शुचिः शुक्लवासा घृतमङ्गलसहितः सोष्णीषी शान्तिगृहं
प्रविश्य तेन स्वस्तिवाचनादनुज्ञातो विनीतवदुपविशेत् । 'य-
मस्य लोका', 'यथाकलं यो न जीवोऽसि' इति स्वस्त्ययनं
कृत्वोल्लिख्याभ्युक्ष्य, परिस्तीर्य, शन्तातीयेन तिलान् घृताक्तान्
हुत्वा, सौवर्णं राजतमौदुम्बरं वा पात्रं घृतपूर्णं सहिरण्यं 'घृ-
तस्य जूतिः', 'सहस्रशृङ्गः', 'यमस्य लोका', 'उरु वि

गुरुणा याचितो यस्माद्दीर्घमायुरवाप्नुयात् ॥
आयुष्यमथ वर्चस्यं सौभाग्यं शत्रुनाशनम् ।
दुःस्वप्ननाशनं पुण्यं घृतस्यावेक्षणं स्मृतम् ॥ इति ।
इति आथर्वणपरिशिष्टोक्तं घृतावेक्षणम् ।
ब्रह्मपुराणे-
नित्यं राज्ञा समुत्थाय पूजनीयाः सुराद्विजाः ।
वह्निसम्पूजनं कार्यं द्रष्टव्यं चन्दनं घृतम् ॥
श्रोतव्ये तिथिनक्षत्रे कर्तव्यं वैद्यभाषितम् । इति ।
याज्ञवल्क्यः-
ऋत्विकपुरोहिताचार्यैराशीर्भिरभिनन्दितः ।
दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद्गाः काञ्चनं महीम् ॥
नैवेशिकानि च तथा श्रोत्रियाणां गृहाणि च ।
दृष्ट्वा, तदधीनं कार्यजातं च विचार्य । गाः, दोग्ध्रीः । नैवे-
शिकानि, विवाहोपयोगीनि कन्यालङ्करणादीनि । गृहाणि च
श्रोत्रियेभ्यो वेदविद्भ्यो दद्यात् ।
शङ्खलिखितौ-राज्ञः प्रत्यहं घृतान्वीक्षणं मङ्गलदर्शनं
कपिलाप्रदानं स्वलङ्कृतस्य सम्भाषणं वैद्यदर्शनम् । इति ।
सभाऽनुवृत्तौ विष्णुधर्मोत्तरे-
तत्रस्थान् ब्राह्मणान् पश्येदमात्यान् मन्त्रिणस्तथा ।
प्रकृतीश्च महाभाग प्रतीहारनिवोधितः ॥
तत्रेतिहासश्रवणं कुर्यात्कश्चिदतन्द्रितः ।
ततः कार्यार्थिनां कुर्याद्यथाधि कार्यनिर्णयम् ॥
व्यवहारांस्ततः पश्येत्समो भूत्वाऽरिमित्रयोः । इति ।
बृहस्पतिः-
पूर्वाह्णे तामधिष्ठाय वृद्धामात्यानुजीविनः ।

पश्येत्सुरान् स धर्मार्थशास्त्राणि शृणुयात्ततः ॥
ताम्, सभाम् । सुरान्, भूसुरान् । पूर्ववाक्ये तत्रस्थान्
ब्राह्मणानित्युपादानात् ।
मनुः-
तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् ।
विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः ॥
तत्र, सभायाम् ।
मन्त्रे स्थलं कालं च स एवाह-
गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः ।
अरण्ये निःशलाके वा मन्त्रयेताविभावितः ॥
निःशलाके, विविक्ते देशे ।
मध्यन्दिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः ।
चिन्तयेद्धर्मकामार्थान् सार्द्धं तैरेक एव वा ॥
परस्परविरुद्धानां तेषां च समुपार्जनम् ।
तेषाम्, धर्मार्थकामानाम् ।
कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम् ॥
दूतसम्प्रेषणं चैव कार्यशेषं तथैव च ।
अन्तःपुरप्रधानं च प्रणिधीनां च चेष्टितम् ॥
कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः ।
अनुरागापरागौ च प्रचारं मण्डलस्य च ॥
अष्टविधं कर्म प्रचेता आह-
आदाने च विसर्गे च तथा प्रैषनिषेधयोः ।
पञ्चमे चानुवचने व्यवहारस्य चेक्षणे ॥
दण्डशुद्ध्योः सदा युक्तस्तेनाष्टगणिको नयः ।
अष्टकर्मा दिवं याति राजा शक्राभिपूजितः ॥