वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 8, कुल 490 में से
संदर्भ में पढ़ें२ वीरमित्रोदयस्य राजनीतिप्रकाशे
शुण्डास्फालनविह्वलैः स्तुत इव व्यालैर्वियत्प्लाविभिः ॥
मज्जत्कुम्भमहावगाहनकृतारम्भो महाम्भोनिधौ
हेरम्बः कुरुतां कृताम्बरकरालम्बश्चिरं वः शिवम् ॥ ५ ॥
समन्तातपश्यन्ती समसमयमेव त्रिभुवनं
त्रिभिर्नेत्रैर्दौर्भिर्दशभिरपि पान्ती दश दिशः ॥
दधाना पारीन्द्रोपरि चरणमेकं परपदा
हतारिर्वो हन्यान्महिषमथनी मोहमहिषम् ॥ ६ ॥
वामान् भिन्दन्नवामान् भुवमनुसुखयन् पूरयन्नर्थिकामान्
श्रीमान् भीमानुकारी बहलबलभरैर्मेदिनीमल्लनामा ॥
आसीदाशीविषेन्द्रद्युतिधवलयशा भूपचक्रावतंसः
श्रीकाशीराजवंशे विधुरिव जलधौ सर्वभूसार्वभौमः ॥७॥
सङ्ग्रामग्रामकामो निरुपममहिमा सत्त्वविश्रामधाम
क्रामन्नेवारिचक्रं मिहिर इव तमो विक्रमोरुक्रमेण ॥
सारैर्मेरोरुदारैरपर इव गिरिर्मेदिनीमल्लनेन
प्रख्यातः क्षोणिचक्रे समजनि नृपतिर्मेदिनीमल्लनामा ॥ ८॥
निर्यद्भिस्तर्ज्जयद्भिर्विधुमिव जगतीमर्जुनाभैर्यशोभिः
सम्पूर्यावार्यवीर्यो विशिखवितरणैरर्जुनो दुर्ज्जनानाम् ॥
साम्राज्योपार्जनश्रीरगणितगुणभूरर्जुनप्रांशुबाहु—
र्नाम्नाऽभूदर्जुनोऽस्मान्नरपतिरतुलो मेदिनीमल्लभूपात् ॥ ९॥
बुद्धिः शुद्धिमती क्षमा निरुपमा विद्याऽनवद्या मनो
गाम्भीर्यैकनिकेतनं वितरणं दीनार्त्तिनिद्दारणम् ॥
आसीदर्जुनभूपतेर्विदधतो विद्रावणं विद्विषां
भूमीनामवनं च कारणगुणात्कार्यं यशोऽप्यर्जुनम् ॥१०॥
तस्मादाविरभूतप्रभूतमहिमा भूमीपतेरर्जुनात्
सौजन्यैकनिधिर्गुणैरनवधिर्लावण्यवारां निधिः ॥