सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 11, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 11

वंशवर्णनम् । ६
शौर्यौदार्यगभीरताधृतिदयादानादिनानागुणा-
नुर्वीदुर्वहभारवत्यहिपतिस्पर्द्धालदोःशालिनि ॥
संयोज्यैव जुहारसिंहधरणीधौरेयचूडामणौ
मज्जन् ब्रह्मणि वीरसिंहसुकृती तस्थौ स्वयं निर्गुणः ॥२६॥
नद्यः स्वादुजला द्रुमाश्च सुफला भूरुर्वरा भूसुरा
वेदध्वानविधूयमानदुरिता लोका विशोका बभुः ॥
राजनीतिनिरीतिरीति पितरीवोर्वीमिमां शासति
श्रीमद्वीरजुहारसिंहनृपतौ भ्रूभङ्गभग्नद्विषि ॥ २७ ॥
सङ्ग्रामोत्कटताण्डवोद्भटभटैरारब्धहेलाहठै-
श्चण्डाडम्बरपूरिताम्बरतटक्षीराब्धिगोधावटैः ॥
भूभृत्सिंहजुहारसिंहधरणीजानेः प्रयाणे रणे
शौर्यौदार्यधनोऽपि को नु धरणीचक्रे न चक्रे भयम्॥२८॥
तावद्वीरगभीरहुङ्कृतिरवस्तावद्गजाडम्बर-
स्तावत्तुङ्गतुरङ्गरिङ्गणचमत्कारश्चमूनामपि ॥
तावत्तोयमहामहीभृदटवीदुर्गग्रहो विद्विषां
यावन्नैव जुहारसिंहनृपतिर्युद्धाय बद्धोत्सवः ॥ २९ ॥
अयं यदि महामना वितरणाय धत्ते धियं
भियं कनकभूधरोऽञ्चति ह्रियं च कर्णोऽटति ॥
दधीचिरपचीयते बलिरलीकरूपायते-
तदाऽतिमलिनायते स किल कल्पभूमीरुहः ॥ ३० ॥
प्रासादारामतडागनागमणिभूदानादिनानातपः-
प्रागल्भ्येन महेन्द्रचन्द्रवरुणब्रह्मेशविष्णुस्थली ॥
प्राचण्ड्येन जिता मिता वसुमती कोदण्डदोर्दण्डयो-
र्ज्जागर्त्तीति जुहारसिंहनृपतेः कुत्र प्रतापो न वा ॥ ३१ ॥
ब्रह्माभूच्चतुराननः स्मरहरः पञ्चाननः षण्मुखः