वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 109, कुल 490 में से
संदर्भ में पढ़ेंऐतरेयब्राह्मणोक्तो राजाभिषेकः । १११
भिज्ञाः, हृत्स्थेनान्तर्मुखेन मनसा, पतङ्गं परमात्मानं, पश्यन्ति,
उपाधिपरित्यागेन जीवात्मनः परमात्मना तादात्म्यं साक्षा-
त्कुर्वन्ति । अपिच, ते कवयो वेदान्ताभिज्ञाः, समुद्रद्रवन्त्यस्मि-
न्निति समुद्रः परमात्मा तस्मिन्नधिष्ठानभूते, अन्तर्मध्ये, सर्वं दृश्य-
मध्यस्तत्वेन पश्यन्ति । अतो दृश्यातिरिक्तस्य मिथ्यात्वात्, वे-
धसो विधातारो, मरीचीनां वृत्तिज्ञानानाम्, पदम्, अधिष्ठानभूतं
सच्चित्सुखात्मकं यत् परं ब्रह्म, तदेवेच्छन्ति, तद्भावप्राप्तिमेव
कामयन्ते । द्वितीया पतङ्गो वाचमिति । पतङ्गः सूर्यः, वाचं त्र-
यीरूपां, मनसा प्रज्ञया, बिभर्त्ति धारयति । श्रूयते हि—
ऋग्भिः पूर्वाह्ने दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अह्नः ।
सामवेदेनास्तमये महीयते वेदैरशून्यैस्त्रिभिरेति सूर्यः ॥ इति ।
तामेव वाचं, गर्भे, शरीरस्य मध्ये, वर्त्तमानो, गन्धर्वः, गाः
शब्दान् धारयतीति गन्धर्वः प्राणवायुः, अन्तः मध्ये, अवदत्,
वदति, प्रेरयति ।
“मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम्”
इतिस्मरणात् । द्योतमानां, स्वर्यं स्वर्गमयित्रीं, स्वर्गाय हितां
वा । मनीषां मनस ईषाम् । तां त्रयीरूपां वाचम् । ऋतस्य यज्ञस्य,
सत्यभूतस्य सूर्यस्य वा । पदे स्थाने, कवयो, मेधाविन ऋषयः ।
निपान्ति, अध्ययनेन नितरां रक्षन्ति । यद्वा पतङ्गः, सर्वोपाधि-
शून्यो व्याप्तः परमात्मा, सृष्ट्यादौ वाचं मनसा बिभर्त्ति, कानि
कानि सृष्टव्यानीति पर्यालोचनया मनसा सर्वार्थप्रतिपादकं वे-
दं परामृष्टवानित्यर्थः । स्मर्यते हि—
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः । इति ।
गर्भे, हिरण्मये ब्रह्माण्डे, अन्तर्वर्त्तमानो गन्धर्वो हिरण्यगर्भः,
तां वाचमवदत्, प्रथममुच्चारितवान् । द्योतमानत्त्वादिगुणविशि-