सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 101, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 101

पृथिवीं जयन् परीयायाश्वेन च मेध्येनेज एतेन ह वा
ऐन्द्रेण महाभिषेकेण पर्वतनारदावाम्बाष्ठ्यमभिषिषेचतुस्त-
स्माद्वाम्बाष्ठ्यः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वे-
न च मेध्येनेज एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदौ
युधांश्रौष्टिमौग्रसैन्यमभिषिषेचतुस्तस्मादु युधांश्रौष्टिरौग्रसैन्यः
समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेज एते-
न ह वा ऐन्द्रेण महाभिषेकेण कश्यपो विश्वकर्माणं भौवनम-
भिषिषेच तस्मादु विश्वकर्मा भौवनः समन्तं सर्वतः पृथिवीं
जयन् परीयायाश्वेन च मेध्येनेजे भूमिर्ह जगावित्युदाहरन्ति
न मा मर्त्यः कश्चन दातुमर्हति विश्वकर्मन् भौवन मां दिदा-
सिथ ॥ निमङ्क्ष्येऽहं सालिलस्य मध्ये मोघस्त एष कश्यपाया-
ससङ्गर इत्येतेन ह वा ऐन्द्रेण महाभिषेकेण वसिष्ठः
सुदासं पैजवनमभिषिषेच तस्मादु सुदासः पैजवनः स-
मन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेज
एतेन ह वा ऐन्द्रेण महाभिषेकेण संवर्त्त आङ्गिरसो मरुत्त-
माविक्षितमभिषिषेच तस्मादु मरुत्त आविक्षितः समन्तं सर्वतः
पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे तदप्येष श्लोको-
ऽभिगीतो—
मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे ।
आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति ॥ ( पं०
८ अ० ४ खं० २७ )
एतेन ह वा ऐन्द्रेण महाभिषेकेणोदमय आत्रेयोऽङ्गमभि-
षिषेच तस्मादङ्गः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन
च मेध्येनेजे सहोवाचालोपाङ्गो दशनागसहस्राणि दशदासी-
सहस्राणि ददामि ते ब्राह्मणोपमास्मिन् यज्ञे हयस्वेति तदप्येते