सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 9, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 9

Here is the complete transcription of the provided Sanskrit text from the image:

६ विक्रमोर्वशीये
दोषविधानतत्त्वज्ञः सर्वशास्त्रविचक्षणः ॥ तत्तद्गीतानुगत्वयकलतालावधारणम् ।
अवधाय प्रयोक्ता च योक्तृणामुपदेशकः ॥ एवंगुणगणोपेतः सूत्रधारो नि-
गद्यते' इति। तत्र तावत्पूर्वरङ्गमारभ्य मुखपर्यन्तमय क्रमः—'तत्र पूर्वं पूर्वर-
ङ्गः सभापूजा ततः परम्। कथनं कविसंज्ञादेर्नाटकस्याप्यथामुखम् ॥' इति। तत्रेति
नाटके। यद्यपि—'सभापतिः सभासद्भा गायका वादका अपि । नटी नटश्च
मोदन्ते यत्रान्योन्यं तु रञ्जनात् ॥ अतो रङ्ग इति ज्ञेयः पूर्वं यः संप्रकल्पते ।
तस्मादयं पूर्वरङ्ग इति विद्वद्भिरुच्यते ॥' इति भावप्रकाशोक्तलक्षणात् पूर्वं
रज्यते जनोऽस्मिन्निति पूर्वरङ्ग इति व्युत्पत्त्या पूर्वरङ्गो नाट्यशालोच्यते। तथापि
तात्स्थ्यादुपचारहेतोरधिष्ठानलक्षणया पूर्वरङ्गशब्देन युत्थापनाद्युच्यते। तदुक्तं
साहित्यदर्पणे—'यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति
पूर्वरङ्गः स उच्यते ॥ किंच दशरूपके— पूर्वरङ्गं विधायैवं सूत्रधारे विनिर्गते ।
प्रविश्य तद्वदपरः काव्यमास्थापयेन्नटः ॥' अन्यत्रापि—प्रयुज्य रङ्गं
निष्क्रामेत्सूत्रधारः सहानुगः। स्थापकः प्रविशेद पश्चात्सूत्रधारगुणाकृतिः ॥ ज्यो-
तिरीश्वरोऽपि—'आरम्भं भरतः कृत्वा शालङ्कारः शुभाकृतिः । सूत्रधारः पठे-
न्नान्दीं मध्यमं स्वरमाश्रितः ॥ इति। संगीतकल्पतरुकारोऽपि— सूत्रधारः
पठेन्नान्दीमन्यो वा रङ्गभूमिगः । मङ्गलं सूचयित्वा तु ललितेन शुभाश्विनाम् ॥
इति। अत्र च सूत्रधारादन्यो भरतो नट एव विघ्नोत्सारणस्तुतिमङ्गलपूजादिना-
न्त्यन्तं पूर्वरङ्गं जवनिकान्तर्विदधीत । तस्मिंश्च विनिर्गते रङ्गभूमावागते सूत्रधार-
समालङ्कारगुणोऽन्यः स्थापकाभिधो नटो वैष्णवस्थानकानीत्वा सूत्रधारवत्प्रविश्य
काव्यमास्थापयेत्सूचयेत् । अत एव वक्ष्यमाणेन 'नटी विदूषको वा इति सू-
त्रधारलक्षणे तत्समवेषस्योक्तत्वात्प्रयत्नेन सूत्रधारेण च सत्कार इति शेषपद्यते।'इति
केचिदाहुः। अपरे तु— विघ्नोत्सारणस्तुतिमङ्गलपूजा तमेव पूर्वरङ्गं नान्दीव्यतिरिक्तं
कृत्वा सूत्रधारे विनिर्गते तत्समगुणवर्णस्स्थापक एव सूत्रधारो नान्दीं जवनिकान्त-
र्गत्वा रङ्गभूमावागत्य काव्यमास्थापयेत् ।' इत्याहुः । 'इदानीं पूर्वरङ्गस्य सभ्य-
कप्रयोगसामर्थ्यादेक एव सूत्रधारः सर्वं प्रयोजयति।' इति साहित्यदर्पणकारः।
शक्रध्वजस्य च भञ्जर इति पूर्वरङ्गार्थकृता संज्ञा। तथा च— प्रत्याहारा-
दिकाम्यङ्गान्यस्य भूयांसि यद्यपि। तथाप्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये ॥
इति। अस्येति पूर्वरङ्गस्य। अन्यथासा भावकत्वादेनोल्लघ्यप्रत्याहारादिका
विशदङ्गेषु केवलं नाव्ये च सर्वनाटकेषु बहुधा विधीयते। तल्लक्षणं तु देशान्त-
रिरिरिचिन्नूतरणट्टानाम्—'देवद्विजन्नृपादीनामाशीर्वचनपूर्विका। मङ्गल्य-
सां सुरा यस्मान्नद्याशङ्गेति कीर्तिता ॥ तथा नाट्यलोचनकारी 'य्याह—
'आशीर्वचः नमस्क्रिया वा दृष्टिव संकीर्तनं वस्तुनो निर्देशो गुह्यंमुद्दिष्टंविपूर्वाता
ङ्गोन्य गुणतः।' अर्थाङ्गादपि पठेच्च सभ्यैर्दृष्टमितिचेत्ता बहुनेन तु