सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 4, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 4

उत्तर-विभाग होटल
॥ श्री ॥
विक्रमोर्वशीयम् ।
प्रथमोऽङ्कः ।
वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी
यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।
अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते
स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥ १ ॥
(नान्द्यन्ते प्रविशति सूत्रधारः ।)
सूत्रधारः - अलमतिविस्तरेण ।
(नेपथ्याभिमुखमवलोक्य) मारिष इतस्तावत् ।
(प्रविश्य पारिपार्श्विकः) पारिपार्श्विकः - भाव अयमस्मि ।
सूत्रधारः - मारिष, बहुशः किल कालिदासग्रथिता वस्तु-
बन्धा नवरचनाप्रयुक्ता पूर्वैरस्माभिः परिषत् ।
तदस्यां विक्रमोर्वशीयं नाम नाटकं प्रयोक्तु-
मिच्छामः । तदुपचर्यन्तां सर्वे पात्राः ।
पारिपार्श्विकः - यदाज्ञापयति भावः ।
(नेपथ्ये) परित्ताअध परित्ताअध ।
सूत्रधारः - (आकर्ण्य) अये किमिदं क्रन्दितम् ।
पारिपार्श्विकः - भाव, दिव्यानन्दकारिण्यां दिशि
त्रासोत्थः क्रन्दितध्वनिः श्रूयते ।
सूत्रधारः - भवतु, पश्यावः ।
(इति निष्क्रान्तौ)
॥ प्रस्तावना ॥
(ततः प्रविशन्ति अप्सरसः ।)
सर्वाः - परित्ताअध परित्ताअध ।
रम्भा - हला मेनके ...