सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 85, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 85

( ६२ )
प्रतापभानौ भजति प्रतिष्ठां यस्य प्रभातेष्विव संयुगेषु ।
सूर्योपलानाभिव पार्थिवानां केषां न तापः प्रकटीबभूव ॥८१॥
अन्वय
प्रभातेषु इव संयुगेषु यस्य प्रतापभानौ प्रतिष्ठां भजति (सति) सूर्योप-
लानाम् इव केषां पार्थिवानां तापः न प्रकटीबभूव ।
व्याख्या
प्रभातेषु प्रत्यूषेषु प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसोऽपि प्रभातं चेत्यमरः ।
इव संयुगेषु युद्धेषु यस्य राज्ञो जयसिंहदेवस्य प्रताप एव भानुस्सूर्यस्तस्मिन्
प्रतिष्ठां भजति विद्योतमाने सति सूर्योपलानाभिव सूर्यकान्तमणीनामिव केषां
पार्थिवानां विपक्षिनृपाणां तापस्सन्तापः सञ्ज्वलनं न प्रकटीबभूव किन्तु सर्वेषां
विपक्षिणां सन्तापो जात एव । अत्र प्रतापे भानुत्वारोपाद्रूपकम् । प्रभात
संयुगयोः सूर्योपलपार्थिवयोश्चोपमा । केषां न प्रकटीबभूवेत्यर्थापत्तिश्चेति
परस्परसापेक्षत्वादेतेषां सङ्करः ।
भाषा
प्रातःकाल के सदृश युद्ध में, सूर्य के सदृश उस राजा जयसिंहदेव के प्रताप
के विद्यमान होने पर सूर्य मणियों के समान किन राजाओं में सन्ताप प्रकट
न हुआ ? अर्थात् सब राजा इसके प्रताप से सन्तप्त हो गये ।
यात्रासु यस्य ध्वजिनीभरेण दोलायमाना सकला धरित्री ।
आर्द्रव्रणाधिष्ठितपृष्ठपीठ-मकर्मठं कूर्मपतिं चकार ॥८२॥
अन्वय.
यस्य यात्रासु ध्वजिनीभरेण दोलायमाना सकला धरित्री आर्द्रव्रणा-
धिष्ठितपृष्ठपीठं कूर्मपतिं अकर्मठं चकार ।
व्याख्या
यस्य राज्ञो जयसिंहदेवस्य यात्रासु युद्धयात्रासु ध्वजिन्याः सेनाया ‘ध्वजिनी
वाहिनी सेना पृतनाऽनीकिनी चमू' इत्यमरः । भरेण भारेण दोला इवाऽऽ-
चरतीति दोलायमाना सञ्चालिता सकला समग्रा ‘समग्रं सकलं पूर्णम’ इत्यमरः ।