विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
DevanagariSanskritpublished493 पृष्ठ
पृष्ठ 59, कुल 493 में से
संदर्भ में पढ़ेंपृष्ठ 59( ३४ )
( ३४ )
किं वा बहूक्तैः पुरुहूत एष पात्रं महिम्नो यदनङ्कुशस्य ।
स्वामिन् स सर्वोऽपि शिरोधृतानां त्वत्पादसेवारजसां प्रभावः ॥४३॥
अन्वयः
वा बहूक्तैः किम् । यत् एषः पुरुहूतः अनङ्कुशस्य महिम्नः पात्रं,
स्वामिन्, सः सर्वः अपि शिरोधृतानां त्वत्पादसेवारजसां प्रभावः (अस्ति) ।
व्याख्या
वाऽथवा बहून्युकतानि कथितानि तै बहूक्यनैः कि, कि प्रयोजनम् न किम-
पीत्यर्थः । यदिति वाक्यार्थपरामर्शकः । एष सन्मुखस्यः पुरुहूत इन्द्रो 'इन्द्रो
मरुत्वान्मघवा विडौजाः पाकशासनः । वृद्धश्रवाः सुनाशीरः पुरुहूतः पुरन्दरः'
इत्यमरः । नास्त्यङ्कुशः प्रतिबन्धको यस्य तस्याप्रतिहतस्य महिम्नो महत्त्वस्य
पात्रं भाजनमस्तीत्यर्थः । हे स्वामिन् हे निग्रहानुग्रहसमर्थ ब्रह्मन् स सर्वोऽपि
शिरोधृतानां मस्तकोपरि धारितानां सेवाया रजांसि धूलिकणानि सेवासम्बन्धि-
रजांस्यर्चनीयधूलिकणानीत्यर्थः, त्वत्पादयोस्तव चरणयोस्तेजारजांसि तेषां
प्रभावः प्रतापः कार्यमित्यर्थः, अस्ति ।
चकलकमर्थात् कलापकम्१ । शब्दोऽयं कलापकार्थे काश्मीरे रूढः ।
भाषा
अथवा, अधिक कहने से क्या लाभ । हे स्वामिन् यह मैं इन्द्र जो असीम
महिमा का पात्र हुआ हूँ, यह सब सिर पर धारण की हुई आपकी चरण सेवा
की धूलि का ही प्रताप है ।
(जहां चार श्लोको में अर्थ की पूर्ति होती है उसे कलापक कहते है ।
कश्मीर में कलापक को चक्रलक कहते है ।)
१ छन्दोबद्वपद पद्य तेन मुक्तेन मुक्तकम् ।
द्वाभ्यान्तु युग्मकं सदानितक त्रिभिरिष्यते ॥
कलापकं चतुर्भिञ्च पञ्चभिः कुलक मतम् ।
अत्र पञ्चभिरिति न्यूनसंख्या व्यवच्छेदः । पञ्चभि, पञ्चाधिकैश्चेत्यर्थः ।
संदानितक विशेषक तिलक वा ।