विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 47, कुल 493 में से
संदर्भ में पढ़ें( २२ )
लङ्कापतेः सङ्कुचितं यशो यद् यत्कीर्तिपात्रं रघुराजपुत्रः ।
स सर्व एवाऽऽदिकवेः प्रभावो न कोपनीयाः कवयः क्षितीन्द्रैः ॥२७॥
अन्वयः
यत् लङ्कापतेः यशः सङ्कुचितं यत् रघुराजपुत्रः कीर्तिपात्रं, सः सर्वः
एव आदिकवेः प्रभावः, क्षितीन्द्रैः कवयः न कोपनीयाः ।
व्याख्या
यल्लङ्कापते रावणस्य यश कीर्ति 'यश कीर्ति समज्ञा च स्तम स्तोत्र स्तुति-
र्नुति' इत्यमर । सङ्कुचितमविस्तृतं नष्टमित्यर्थं । यद्रघुराजस्य दशरथस्य
पुत्रो राम कीर्तिपात्र यशोभाजन जात स सर्व एवाऽऽदिकवेर्वाल्मीके प्रभाव-
कौशलं कार्यमित्यर्थं । अतः क्षितीन्द्रै राजभि कवयो न कोपनीया न क्रोधनीया
नापमाननीया इतिभाव । यदिति वाक्यार्थपरामर्शकः ।
भाषा
रावण की कीर्ति जो न फैल सकी अर्थात् नष्ट हो गई और दशरथ जी के
पुत्र राम जी, जो कीर्ति के पात्र हुए, यह सब आदि कवि वाल्मीकि का ही
प्रताप है । इसलिए राजाओ को कभी भी कवियो को कुपित न करना चाहिये ।
गिरां प्रवृत्तिर्मम नीरसाऽपि मान्या भवित्री नृपतेश्चरित्रैः ।
के वा न शुष्कां मृदमभ्रसिन्धु-सम्बन्धिनीं मूर्द्धनि धारयन्ति ॥२८॥
अन्वयः
मम नीरसा अपि गिरां प्रवृत्तिः नृपतेः चरित्रैः मान्या भवित्री । के
वा शुष्काम् अभ्रसिन्धुसम्बन्धिनीं मृदं मूर्द्धनि न धारयन्ति ।
व्याख्या
मम मदीया नीरसाऽपि रसरहिताऽपि गिरां वाचां प्रवृत्ति प्रवर्तन व्यापारो वा
नृपते राज्ञो विक्रमाङ्कदेवस्य चरित्रैश्चरितैर्हेतुभिर्मान्या पूज्या भवित्री भाविनी ।
प्रकृत्या चारु राज्ञश्चरितमत्र वर्णितमिति हेतोरिदं काव्यं विदुषा रसनीयत्वमुप-
यास्यत्येवेति भावः । के वा मनुष्या शुष्कां रसरहितामभ्रसिन्धोर्जाह्नव्या
सम्बन्धिनीं तटगतां मृदं मृत्तिकां मूर्द्धनि शिरसि न धारयन्ति नाऽवतंसयन्ति ।