विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 458, कुल 493 में से
संदर्भ में पढ़ें( ४५५ )
सौत के दांत से काटने के चिन्ह—इन दोषों को भी, मान रहित स्त्रियों ने गुण ही
समझा । युवा कामियों में, इन दोषों को देख कर पत्नियां क्रुद्ध हो जाती हैं ।
परन्तु वसन्त-ऋतु के प्रभाव से जिनका मान ही दूर हो गया है अतएव
कामासक्त भई हुई स्त्रियों ने इन दोषों को भी गुण ही समझा ।
थन्दिष्कृतं वसन्तवर्णनमारभते कविः—
मानग्रन्थिकदर्थनाय कथितः सर्वत्र पुंस्कोकिलाः
केलीकर्मणि दाक्षिणात्यमरुतामध्यक्षभावोऽर्पितः ।
पुष्पास्त्रस्य जगत्त्रयेऽपि विरहप्रत्यूहहेवाकिनः
संनद्धोऽयमसाध्यसाधनविधौ साम्राज्यमन्त्री मधुः ॥ ६३॥
अन्वयः
सर्वत्र मानग्रन्थिकदर्थनाय पुंस्कोकिलाः कथिताः । केलीकर्मणि
दाक्षिणात्यमरुताम् अध्यक्षभावः अर्पितः । जगत्त्रये अपि विरहप्रत्यूह-
हेवाकिनः पुष्पास्त्रस्य साम्राज्यमन्त्री अयं मधुः असाध्यसाधनविधौ
संनद्धः । (अस्ति)।
व्याख्या
(वसन्तेन) सर्वत्र सर्वस्थानेषु मानः कोप एव ग्रन्थिस्तस्य कदर्थनाय भञ्जनाय
विनाशायेत्यर्थः । पुंस्कोकिलाः पिकाः कथिता आज्ञप्ताः । केलीकर्मणि काम-
क्रीडाविलासे रत्याविधीत्यर्थः । दाक्षिणात्यमरुतां मलयपवनानामध्यक्षभाव
आधिपत्यमर्पितो दत्तः । जगतां भुवनानां 'विष्टपं भुवनं जगत्' इत्यमरः ।
त्रयं तस्मिन् त्रिलोक्यामपि विरहे वियोगसमये प्रत्यूहा विघ्नाः 'विघ्नोऽन्तरायः
प्रत्यूहः' इत्यमरः । क्लेशोत्पादका उपद्रवा इत्यर्थः । तेषां हेवाकः १ उत्कटेच्छाऽ-
स्त्यस्येति तस्य प्रियविरहसमये पीड़ोत्पादनकामस्य पुष्पास्त्रस्य कामस्य साम्राज्यस्य
सार्वभौमराज्यस्य मन्त्री धीसचिवः 'मन्त्री धीसचिवोऽमात्यः इत्यमरः । अयं
प्रसिद्धो मधुर्वसन्तोऽसाध्यानामसम्भवानां विरहिदृप्तानां साधनमुत्पाटनं तस्य
१ हेवाकशब्दः कश्मीरकविभिः कल्हणविल्हणादिभिरेव प्रायः प्रयुक्तः ।
'जायन्ते महतामहो निरुपमप्रस्थानहेवाकिनां
निःसामान्यमहत्त्वयोगरिगुणा वार्ता विस्तारि' इति कल्हणः ।