सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 452, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 452

( ४४९ )
अन्वयः
चित्रीकृतकाननेन चैत्रेण समर्प्यमाणाद्भुतकौसुमास्त्रः अधिज्यधन्वा
अपि भगवान् अनङ्गः निषङ्गभारे पराङ्मुखः अभूत् ।
व्याख्या
चित्रीकृतमलङ्कृतं विभिन्नवर्णनवीनपुष्पादिनेति भावः । काननं वनं 'अट-
व्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । येन स तेन चैत्रेण वसन्तमासे-
नेत्यर्थः । समर्प्यमाणं दीयमानमद्भुतं विचित्रं कौसुमं पौष्पमस्त्रं बाणो यस्मै
स ज्यां मौर्वीमधिगतमधिज्यं धनुर्यस्य सः समारोपितचापोऽपि भगवान् पूज्योऽनङ्गः
कामो निषङ्गभारे तूणीरभारग्रहणे पराङ्मुखो निरभिलाषोऽभूत् । चैत्रेण
कानने महान्पुष्परूपबाणराशिरेकत्रीकृतो दत्तश्च कामाय येन बाणसंरक्षणाय
तूणीरधारणस्याऽऽवश्यकतैव न जातेति भावः ।
भाषा
जंगलो को रंगबिरंगी फूलों से सुशोभित करने वाले चैत्र से, आश्चर्यजनक
फूलों के बाणों को पाकर, धनुष चढ़ाकर रखने वाले भी भगवान् कामदेव, तरकस
धारण करने में विमुख रहे । अर्थात् सदैव चैत्र द्वारा पुष्पबाण दिये जाने के
कारण धनुष चढ़ाए रहने पर भी तरकस में बाण रखकर उसे पीठ पर लटका
रखने की आवश्यकता भगवान् कामदेव को न पड़ी ।
शृङ्गारिणीमार्जितदन्तपंक्ति-कान्त्येव नियन्त्रणमुच्छलन्त्या ।
प्रक्षाल्यमानस्य शनैरवापु-रनिन्द्यमिन्दोः किरणाः प्रसादम् ॥५५॥
अन्वयः
नियन्त्रणम् उच्छलन्त्या शृङ्गारिणीमार्जितदन्तकान्त्या प्रक्षाल्यमानस्य
इव इन्दोः किरणाः शनैः अनिन्द्यं प्रसादम् अवापुः ।
व्याख्या
नियन्त्रणं निरर्गलमुच्छलन्त्योर्ध्वं प्रसरन्त्या शृङ्गारिणीभिरङ्गनाभिर्माजिता-
स्स्वच्छीकृता धवलीकृता इत्यर्थः । दन्ता दशनास्तेषां कान्तिस्तया प्रक्षाल्यमानस्य
संभाजितस्येव धवलीकृतस्येवेत्यर्थः । इन्दोश्चन्द्रस्य किरणाः कराः शनैः_क्रमशोऽ-
निन्द्यं निर्मलं प्रसादं धावल्यमवापुः प्रापुः । उत्प्रेक्षालङ्कारः ।
२९