विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 44, कुल 493 में से
संदर्भ में पढ़ें( १७ )
भाषा
दुर्जनो में दूसरो की निन्दा करना यह दोष नहीं कहा जा सकता । क्यो
कि दूसरो के अच्छे गुणों की निन्दा करना उनका स्वभाव ही होता है। कुछ
लोग ऐसे भी हे जिनको कपूर की डली के ऐसी पोडे से बनी सफेद चीनी भी
अच्छी नहीं लगती ।
सहोदराः कुङ्कुमकेसराणां भवन्ति नूनं कविताविलासाः ।
न शारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः ॥२१॥
अन्वयः
कविताविलासाः कुङ्कुमकेसराणां नूनं सहोदराः भवन्ति । यत् मया
तेषां प्ररोहः शारदादेशम् अपास्य अन्यत्र न दृष्टः ।
व्याख्या
कविताया सत्कविताया विलासा विभ्रमा कुङ्कुमस्याग्निशिखस्य 'अथ
कुङ्कुमम् । कश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने' इत्यमरः । केसरा किञ्ज-
ल्का 'किञ्जल्कः केसरोऽस्त्रियाम्' इत्यमरः । तेषां नूनं निश्चयेन सहोदरा
एकदेशजन्यत्वाद् भ्रातरो भवन्ति सन्ति । यद्यस्मात्कारणाम्मया कविना बिल्हणेन
तेषां कविताविलासानां कुङ्कुमकेसराणाञ्च प्ररोहोऽङ्कुर उद्भव इत्यर्थः ।
शारदाया सरस्वत्या आदेश प्रसाद पक्षे शारदाया सरस्वत्या देशं कश्मीरमपास्य
विहायान्यत्रान्यस्मिन् पुरुषे शारदाप्रसाद रहित इत्यर्थः पक्षेऽन्यस्मिन् देशे न
दृष्टो नावलोकितः । शारदाप्रसाद विना न कविताविलासोद्गमः । कश्मीरदेशं
विहाय नान्यत्र कुङ्कुमकेसरोद्गम इति भावः ।
भाषा
उत्तम कविता के विलास और केसर दोनों निश्चय ही सगे भाई हैं ।
शारदा के आदेश बिना अर्थात् सरस्वती की कृपा बिना अच्छी कविता की
उत्पत्ति और शारदा देश बिना अर्थात् कश्मीर बिना केसर की उत्पत्ति, अन्यत्र
होती हुई मैंने नहीं देखी है ।
रसध्वनेरध्वनि ये चरन्ति संक्रान्तवक्रोक्तिरहस्यमुद्राः ।
तेऽस्मत्प्रबन्धानवधारयन्तु कुर्वन्तु शेषाः शुकवाक्यपाठम् ॥२२॥
२