सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 434, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 434

( ४३० )
सङ्गादजस्रं वनदेवतानां लीलावनान्तस्थितयः शकुन्ताः ।
आरुह्य दोलासु विलासिनीनां ताभिः सह भ्रेमुरसंभ्रमेण ॥२८॥
अन्वयः
लीलावनान्तस्थितयः शकुन्ताः वनदेवतानाम् अजस्रं सङ्गात् विला-
सिनीनां दोलासु आरुह्य ताभिः सह असंम्भ्रमेण भ्रेमुः ।
व्याख्या
लीलाबनस्य क्रीडोद्यानस्याऽन्ते मध्ये स्थितिर्निवासो येषां ते क्रीडोद्यानमध्य-
वासिनः शकुन्ताः पक्षिणः 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः ।
वनदेवतानामरण्यव्यापिष्ठातृदेवतानामजस्रं निरन्तरं 'नित्यानवरताजस्रमप्ययाति-
शयो भरः' इत्यमरः । सङ्गात् सहवासाद्विलासिनीनां कामिनीनां दोलासु प्रेङ्खा-
स्वारुह्य स्थित्वा ताभिर्दोलिनीभिस्सह्रादसंभ्रमेणाऽव्याकुलं यथास्यात्तथा भ्रेमुर्ग-
तागतं चक्रुः । काव्यलिङ्गमलङ्कारः ।
भाषा
क्रीडोद्यान में रहने वाले पक्षी, वनदेवताओं के निरन्तर साथ रहने से
झूला झूलने वाली रूपवती स्त्रियों के झूलों पर बैठ कर उनके साथ निडर
होकर झूला झूलते थे । अर्थात् वे स्त्रिया वनदेवताओं के ऐसी रूपवती थीं ।
हस्तद्वयीगाढगृहीतलोल—दोलागुणानां जघने वधूनाम् ।
१असवृते स्रस्तदुकूलबन्धे किमप्यभूदुच्छ्वसितो मनोभूः ॥२६॥
अन्वयः
हस्तद्वयीगाढगृहीतलोलदोलागुणानां वधूनां स्रस्तदुकूलबन्धे जघने
असंवृते (सति) मनोभूः किमपि उच्छ्वसितः अभूत् ।
व्याख्या
हस्तयोः करयोर्द्वयीति हस्तद्वयी तया गाढं दृढं गृहीता धृता लोलाइचञ्चला
दोलागुणा दोलारज्जवो याभिस्तास्तासां वधूनां नारीणां स्रस्तः स्थानाच्च्यु-
१ "असवृतस्रस्तदुकूलबन्धे" इति पाठस्तु चिन्त्यः ।