सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 430, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 430

( ४२६ )
अन्वयः
युवानः दोलासु पादौ प्रसार्य विहितस्थितीना लोलांशुकपल्लवाना सुदृशा
यत् मनोरथानाम् अपि न गम्यं तत् द्रष्टुम् आपुः ।
व्याख्या
युवानस्तरुणजना दोलासु प्रेङ्खासु पादौ चरणौ प्रसार्य विस्तार्य विहिता
कृता स्थिति समुपवेशन याभिस्तारतासामासीनाना लोलाश्चञ्चला स्वनियत-
स्थानात्परिच्युता अंशुका पल्लवा इवेत्यंशुकपल्लवा मसृणाम्बराणि यासा
स्तास्तासा सुदृशा सुनयनानामङ्गनाना यत् गुह्य स्थान गोपनीयाङ्ग जघनादि
मनोरथानामपि कल्पनानामपि न गम्य न प्राप्य तद्द्रष्टुमवलोकयितुमापु
प्राप्तवन्त । दोलनजनितवायुवेगेन तासा मसृणाम्बरेषु स्थानभ्रष्टेषु सत्सु
युवानस्तासा कल्पनायामप्यप्राप्य जघनादिगोपनीयाङ्ग ददृशुरिति भाव ।
भाषा
युवक लोगोन, पाव लम्बा कर झूलो पर बैठी हुई, हवा के झोके स
स्थानच्युत मुलायम साडी वाली सुनयनी अङ्गनाओ के, कल्पना में भी न आने
वाले जधनादि गोपनीय अङ्गो को देखा ।
उन्नम्य दूरं मुहुरानमन्त्यः कान्ताः श्लथीभूतनितम्बजाड्याः ।
दोलाविलासेन जितश्रमत्वात् प्रकर्षमापुः पुरुषायितेषु ॥२३॥
अन्वयः
दूरम् उन्नम्य मुहुः आनमन्त्यः श्लथीभूतनितम्बजाड्याः कान्ताः दोला-
विलासेन जितश्रमत्वात् पुरुषायितेषु प्रकर्षम् आपुः ।
व्याख्या
दूर विप्रकृष्टदेशमुन्नम्योर्ध्वं समुत्थाय मुहुर्वारम्वारमानमन्त्योऽधोदेश प्राप्नु-
वन्त्य उत्थाय पुनरुपविशन्त्य श्लथीभूत शिथिलीभूत निरस्तमित्यर्थ । नितम्बस्य
कटिपश्चाद्भागस्य जाड्य क्रियाशीलत्वशून्यरव यासा ता कान्ता अङ्गना दोलाया
प्रेङ्खाया विलासेन सञ्चालनक्रीडया जितोवशीकृत श्रम कार्यकारणशमत्व
याभिस्तास्तासा भावो जितश्रमत्व तस्मात समुपाजितकठिनकायसम्पादग-
शक्तित्वात् पुरुषायितेषु पुरुषकर्तृकव्यापारेषु विपरीतमुरतेषु प्रकर्षमुत्कृष्टत्वमापु
प्राप्तवत्य ।