विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 420, कुल 493 में से
संदर्भ में पढ़ें( ४१८ )
चाहिये कि वायु के वाहन मृग को मार कर वायु का इस तरफ आना रोक
दे । अर्थात् दक्षिणानिलके न आने से विरहजनित पीड़ा न हो सकेगी ।
यद्वा मृषा तिष्ठतु दैन्यमेतन्नेच्छन्ति वैरं मरुता किराताः ।
केलिप्रसङ्गे शबराङ्गनानां स हि स्मरग्लानिमपाकरोति ॥९१॥
अन्वयः
यत् वा एतत् दैन्यं मृषा तिष्ठतु । किराताः मरुता वैरं न इच्छन्ति ।
हि सः शबराङ्गनानां केलिप्रसङ्गे स्मरग्लानिम् अपाकरोति ।
व्याख्या
यद्वेति पक्षान्तरे एतद्दैन्यं मलयानिलस्य प्रियविप्रलम्भव्यथोद्वेलकत्वात्तस्मा-
न्दूयेन मृगमारणप्रार्थनं मृषा मिथ्या निरर्थकमेवेत्यर्थः । तिष्ठत्वाऽस्ताम् ।
किराताः शबरा मरुता मलयवायुना सह वैरं शत्रुतां नेच्छन्ति नाऽऽकाङ्क्षन्ति । हि
यस्मात् कारणात् 'हि हेताववधारणे' इत्यमरः । स दक्षिणानिलः शबराणां वने-
चराणां 'भेदाः किरातशबरपुलिन्दम्लेच्छजातयः' इत्यमरः । अङ्गना ललना-
स्तासां केलिप्रसङ्गे सुरतक्रीडाकाले स्मरग्लानि कामोद्वेगजन्यपीडोत्पन्नशारोरिक-
श्रमपाकरोति दूरीकरोति । श्रमापनयनेनोपकारित्वादयं दक्षिणानिलो शत्रुभावं
न जनयतीति तस्य मृगविनाशाभ्यर्थना वृथैवेति भावः ।
भाषा
अथवा किरातराज से वायु के वाहन रूप मृग को मारने की अभ्यर्थना
व्यर्थ है । किरात लोग दक्षिणानिल से वैर करना नहीं चाहते । क्योकि वह
दक्षिणानिल किरातिनियो की सुरत क्रीडा में सुरत जनित श्रम का अपहरण
करता रहता है । अर्थात् दक्षिणानिल उपकारी होने से उस से किरातराज
का शत्रुभाव हो ही नही सकता ।
दुराग्रहश्चन्दनमारुतस्य सदा यदन्यर्तुपराङ्मुखोऽयम् ।
अनेन चैत्रः सुतरामसह्यश्चन्द्रोदयेनेव शरत्प्रदोषः ॥९२॥
अन्वयः
चन्दनमारुतस्य दुराग्रहः यत् अयं सदा अन्यर्तुपराङ्मुखः । अनेन
चैत्रः चन्द्रोदयेन शरत्प्रदोषः इव सुतराम् असह्यः ।