विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 418, कुल 493 में से
संदर्भ में पढ़ें( ४१४ )
अन्वयः
गन्धवाहाः पवनाशनानां पन्नगानां निवासदानात् कृतप्रकोपाः इव
(सन्तः) चन्दनशैलकुञ्जात् उदीचीम् आशां प्रति विनिर्ययुः ।
व्याख्या
गन्धवाहा अनिला 'गन्धवाहानिलाशुगा' इत्यमर । पवनो वायुरशनं भोजनं
येषां ते तेषां वायुभक्षकाणां पन्नगानामुरगाणां 'उरगः पन्नगो भोगी जिह्मगः
पवनाशन' इत्यमर । निवासस्य स्थितेर्दानं तस्मात् कृत प्रदर्शित प्रकोप
क्रोधो यैस्तेऽमर्षयुक्तास्सन्त इवाऽस्मद्द्षका एवाऽत्र निवसन्ति ततोऽत्रास्माभिर्वासो
न युक्त इति हेतो कुपिता सन्त इवेत्यर्थ । चन्दनशैलस्य मलयाचलस्य
कुञ्जान्निकुञ्जात् 'निकुञ्जकुञ्जौ वा क्लीवे लतादिपिहितोदरे' इत्यमर ।
उदीचीमुत्तरामाशां दिशं प्रति विनिर्ययुर्निर्गमुः । मधौ दक्षिणानिलो बहतीति-
प्रसिद्धिः । पवने स्वभक्षकसपनिवासहेतुककोपकर्तृत्वस्य मलयाचलपरित्यागे
हेतुत्वेनोत्प्रेक्षणादुत्प्रेक्षा ।
भाषा
वायुगण, वायुभक्षक सर्पों का, मलयाचल द्वारा आश्रय दिये जाने से मानो
क्रुद्ध होकर मलय पर्वत के कुञ्ज से उत्तर दिशा की ओर भाग चले । अर्थात्
दक्षिणानिल उत्तर दिशा की ओर बहन लगा ।
रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् ।
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥६॥
अन्वयः
रविः रथस्थितानां पुरातनानां वाहनानां परिवर्तनाय इव तुरगोत्तमानाम्
उत्पत्तिभूमौ उत्तरस्यां दिशि प्रतस्थे ।
व्याख्या
रविस्सूर्यो रथस्थितानां रथे विनियोजितानां पुरातनानां वृद्धानां वाहनाना-
मश्वानां परिवर्तनायेव तेषां स्थानेऽन्यनवीनाश्वग्रहणार्थमिव तुरगोत्तमानामश्व-
श्रेष्ठानामुत्पत्तिभूमौ जन्मभूमौ काबुलप्रदेश इत्यर्थः । काबुलप्रदेशो भारत