सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 412, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 412

( ४०८ )
दिशि दिशि तुरगेषु सान्द्रशङ्खस्वनकमनीयसहर्षहेषितेषु (सत्सु) (विक्र-
मादित्यदेवोऽभिषेकमलभतेत्यन्वयः । )
व्याख्या
वरकरिषु श्रेष्ठगजेशु गर्जितेन बृंहितेन गभीरदुन्दुभीनां गम्भीरभेरीणां 'भेरी
स्त्री दुन्दुभिः पुमान्' इत्यमरः । ध्वनिं शब्दं संजनयत्सु सत्स्वथ, दिशि दिशि
प्रतिदिशं तुरगेषु घोटकेषु सान्द्रा घना गम्भीरा वा शङ्खानां कम्बनां स्वनाः
शब्दा इव कमनीयानि मनोज्ञानि सहर्षाणि प्रमोदसहितानार्नि हेषितानि तुरग-
रवाः येषां ते तेषु गम्भीरकम्बुशब्दमनोज्ञसप्रमोदहेषितेषु सत्सु (विक्रमादित्य-
देवोऽभिषेकमलभतेति ।
भाषा
श्रेष्ठ हाथियों की गर्जना से मानो उनके भेरीनाद करते रहने पर और
चारों ओर घोड़ों के, गम्भीर शङ्खों की ध्वनि के समान कर्णप्रिय सहर्ष हिन-
हिनाते रहने पर (विक्रमाङ्कदेव का राज्याभिषेक हुआ।)
अथ सुरपथवल्गद्दिव्यभेरीनिनादं
प्रशमितपरितापं भर्तृलाभात्पृथिव्याः ।
अलभत चिरचिन्ताचान्तचालुक्यलक्ष्मी-
क्लममुपमभिषेकं विक्रमादित्यदेवः ॥६८॥
अन्वयः
अथ विक्रमादित्यदेवः पृथिव्याः भर्तृलाभात् प्रशमितपरितापं सुरपथ-
वल्गद्दिव्यभेरीनिनादं चिरचिन्ताचान्तचालुक्यलक्ष्मीक्लममुपम् अभिषेकम्
अलभत ।
व्याख्या
अथ समरविजयानन्तरं विक्रमादित्यदेवो विक्रमाङ्कदेवो राजकुमारः पृथिव्याः
क्ष्माया भर्तृलाभात् स्वस्वामिप्राप्त्या प्रशमितः शान्तिं प्रापितः परितापस्तन्तापो
दुःखं वा येन स तं दूरीकृतदुःखं, सुरपथे गगने वल्गन् समुत्कर्षं प्राप्नुवन्दिव्यायाः
स्वर्गीयाया भेर्या निनादः शब्दो यस्मिन् स तं गगनप्रसरतस्वर्गीयभेरीनिस्वनं,
चिराच्चिरकालादारभ्य चिराय वा व्याप्ता चिन्ता स्वस्वामिपराजयजन्यशोको-