सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 406, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 406

( ४०० )
व्याख्या
करीणां गजानां दशनानि दन्तास्तेषां परम्परा श्रेणिरनुकृतोऽनुहृतः समवर्तिनो
यमस्य 'धर्मराजः पितृपतिः समवर्ती परेत्तराट्' इत्यमरः । पानलीलाचषको
सुरापानपात्रं 'चषकोऽस्त्री पानपात्रम्' इत्यमरः । यैस्तानि करालांनि
भयङ्कराणि कपालानि शिरोऽस्थीनि 'स्यात्कर्पंटः कपालोऽस्त्री' इत्यमरः ।
तान्येव शुक्तयस्तासां मध्यं तस्मिन्निपत्य पतनं विधायोपवंशमूलकानां मध्यपा-
नान्तराले चर्व्यमाणमूलकानां ('मूली' इति भाषायां प्रसिद्धः ।) श्रियं शोभाम-
तनोद्विस्तारयामास । मूलकश्रीसमश्रीविस्ताररूपार्थस्य प्रतीत्या पदार्थनिदर्शना
लङ्कारः ।
भाषा
हाथियों के दांतों की कतार, यमराज के शराब पीने के प्याले का अनुकरण
करने वाली, भयङ्कर माथे की हड्डियों रूपी सीपों में गिर कर शराब पीते
समय बीच २ में चबाई जाने वाली मूलियों की शोभा दे रही थी ।
वशमवनिपतिद्वयं नयन्ती चटुलपृषत्ककटाक्षमालिकाभिः ।
क्षितिपतितनयेन वीरलक्ष्मीः सुचिरमनर्त्यत सङ्गराग्ररङ्गे ॥८६॥
अन्वयः
सङ्गराग्ररङ्गे क्षितिपतितनयेन चटुलपृषत्ककटाक्षमालिकाभिः अवनि-
पतिद्वयं वशं नयन्ती वीरलक्ष्मीः सुचिरम् अनर्त्यत ।
व्याख्या
सङ्गरस्य संग्रामस्य 'प्रतिज्ञाजि सविवापत्सु सङ्गरः' इत्यमरः । अग्रमेव
रङ्गो नाट्यशाला रङ्गमञ्च इत्यर्थः । तस्मिन् क्षितिपतेराहवमल्लदेवस्य
तनयेन पुत्रेण विक्रमाङ्कदेवेन चटुलाइचञ्चलाः पृषत्का बाणा 'पृषत्कबाणविशिखा
अजिह्मगखगाशुगाः' इत्यमरः । एव कटाक्षा नेत्रप्रान्तदर्शनानि 'अपाङ्गो
नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने' इत्यमरः । तेषां मालिका. पङ्क्तयस्ताभिरवने
पृथिव्याः पतिः स्वामीत्यवनिपतिः तयोर्द्वयं युगलं राजिगं सोमदेवञ्च वशं स्वाधीन-
तायां नयन्ती प्रापयन्ती वीरलक्ष्मीर्युद्धवीराणां राजलक्ष्मीः सुचिरं बहुकालमनर्त्यत
नर्तनाय प्रवर्तिता । रङ्गमञ्चाधिकारिणा रङ्गमञ्चे सचञ्चलकटाक्षा नर्तकीव
विक्रमाङ्कदेवेन समराङ्गणे सचञ्चलबाणपरं वीरलक्ष्मीरनर्त्यतेति भावः ।