विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 404, कुल 493 में से
संदर्भ में पढ़ें( ३१८ )
उच्चलत्पताकेऽग्रजस्य ज्येष्ठभ्रातुः सोमदेवस्य सैन्ये बले क्षणमुदचलत् । स
विक्रमाङ्कदेवो यत्र यत्र यस्मिन् यस्मिन् स्थाने रणभुवि युद्धभूमौ चचार जगाम
तत्र तत्र तस्मिन् तस्मिंस्थानेऽरातीनां शत्रूणा यशांसि कीर्तीन्य॑पिबत्पपौ । यत्र
सङ्ग्रामे स गतस्तत्रैव शत्रून् पराजितवानित्यर्थः ।
भाषा
वह विक्रमाङ्कदेव झण्डे को फहराने वाले चोल देश के राजा राजिग की
सेना में और अपने बडे भाई सोमदेव की सेना में थोडी २ देर के लिये गया ।
जहाँ २ युद्धभूमि में वह गया वहाँ २ उसने शत्रुओं के यश को पी लिया अर्थात्
उनको हराकर निस्तेज कर दिया ।
पददलितबृहत्कपालजाले करटिनि तस्य दुरापभाजनानाम् ।
सुभटरुधिरसीधुपानकेलिर्व्यघटत तत्र पिशाचसुन्दरीणाम् ॥८३॥
अन्वयः
तत्र तस्य करटिनि पददलितबृहत्कपालजाले (सति) दुरापभाजनानां
पिशाचसुन्दरीणां सुभटरुधिरसीधुपानकेलिः व्यघटत ।
व्याख्या
तत्र युद्धे तस्य विक्रमाङ्कदेवस्य करटिनि गजे पदैश्चरणैर्दलितानि खण्डितानि
बृहन्ति विशालानि बहूनीत्यर्थः । कपालाना कर्पराणा जालानि समूहा येन स
तस्मिन्नेवं भूते सति दुरापानि दुर्लभानि भाजनानि चषकापरपर्यायमद्यपात्राणि
यासा तास्तासा पिशाचाना सुन्दर्यस्तासा पिशाचिनीना सुभटाना सुयोधानां
रुधिरस्य शोणितस्य शोणितरूपस्येत्यर्थः । सीधोर्मद्यस्य पानकेलिः पानक्रीडा
व्यघटत भङ्गनाप खण्डिता बभूवेत्यर्थः । हस्तिना कपालेषु चूर्णितेषु पात्राभावात्
पिशाचिनीना रुधिररूपमद्यपानक्रीडा समाप्तेति भाव ।
भाषा
युद्ध में विक्रमाङ्कदेव के हाथी के पाव तले बहुत सी खोपडियो के चूर २
हो जाने पर, पानपात्रो को न प्राप्त करने वाली पिशाचिनियो की, योद्धाओ के
रुधिर रूपी शराब को पीने की क्रीड़ा बन्द हो गई ।
ध्रुवमरिषु पटं व्यधत्त लक्ष्मीः सुरभिकुशेशयकोशकेलिभक्ता ।
नृपसुतकरवाललेखया यन्मधुकरमालिकयेव चुम्ब्यते स्म ॥८४॥