विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 392, कुल 493 में से
संदर्भ में पढ़ें( ३८५ )
व्याख्या
शशोऽस्यास्तीति शशी चन्द्रो मौलौ शिरसि यस्य स शशिमौलि शङ्करो,
यशस कीर्तेविरोधि विपरीतमपशस्करमित्यर्थ । इद सोमदेवप्रेरितसमरूपकार्यं
किमुपनत कथ प्राप्तम् । त्रिदिव स्वर्ग 'स्वरव्यय स्वर्गनरकत्रिदिवत्रिदशालया.'
इत्यमर । गत प्राप्त इति त्रिदिवगत स्वर्गंगतो मे मम विक्रमाङ्कदेवस्य
पिताऽऽहवमल्लदेव किमु वक्ष्यते कि कथयिष्यति । इति सर्वं मनसि हृदये
निधाय सस्थाप्य जातनिद्र जाता समागता निद्रा स्वापो यस्य स त सुप्त नृपतनय
राजकुमार विक्रमाङ्कदेवमाविवेशाऽऽज्ञप्तवान् ।
भाषा
अपयश पैदा करने वाला यह मौका कैसे आ गया ? स्वर्गवासी मेरे पिता
आहवमल्लदेव मुझे क्या कहेंगे ? ऐसी बातें मन में रख कर, सोए हुए उस
राजकुमार को चन्द्रशेखर महादेव ने (स्वप्न में) आज्ञा दी ।
त्वमिह महति वत्स देवकार्ये ननु गुणवानवतारितो मयैव ।
तरलयति मुधा विकल्पदोला किमिति मनस्तव शुद्धधैर्यधाम्नः ॥६३॥
अन्वयः
हे वत्स ! मया एव इह महति देवकार्ये गुणवान् त्वं अवतारितः
ननु । विकल्पदोला शुद्धधैर्यधाम्नः तव मनः किम् इति मुधा तरलयति ।
व्याख्या
हे वत्स ! हे प्रिय बालक ! मयैव शिवेनैवेत्यर्थ । इहाऽस्मिन जगति
महति विशाले देवकार्ये सुरकार्यार्थं गुणवान् दयादाक्षिण्यशौर्यादिगुणशाली त्व
विक्रमाङ्कदेवोऽवतारित समुत्पादितो ननु निश्चयेन । विकल्प सन्देह एवोभय-
पक्षस्य समबलत्वेनाऽऽश्रयणाद्दोला प्रेखा 'दोला प्रेखादिका स्त्रियाम्' इत्यमरः ।
शुद्धस्य चाञ्चल्यरहितस्य धैर्यस्य धीरताया धाम स्थानं तस्य तव मनश्चित्त
किमिति कथ मृधा व्यर्थ तरलयति चञ्चलयति । सशय विहाय समरोद्यती
भवेति भाव ।
भाषा
हे प्रिय बालक ! इस ससार में देवताओ के बडे महत्वयुक्त कार्य करने
के लिये दया दाक्षिण्य शौर्य आदि गुणो से युक्त तुम (विक्रमाङ्कदेव) को निश्चय-
२५