विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 390, कुल 493 में से
संदर्भ में पढ़ें( ३८३ )
अन्वयः
किंस्वित् इतः अपसरणं करोमि । एष बाहुः गोत्रवधाय न प्रसरति ।
परम् अयं दुष्टलोकः अयशांसि मयि निपात्य किम् अपि प्रमोदम् एति ।
व्याख्या
किंस्विदथवा किमितोऽस्माद्रणाङ्गणादपसरणं पलायनं करोमि । एष
मे बाहुर्भुजो गोत्रस्य मत्कुलोत्पन्नस्य ज्येष्ठभ्रातुस्सोमदेवस्य वधाय नाशाय न
प्रसरति व्यापारं न कुरुते । परं किन्त्वयं दुष्टलोको दुर्जनसमूहोऽपयशांस्यप-
कीर्तीर्मयि विक्रमाङ्कदेवे निपात्य निक्षिप्य किमप्यनिर्वचनीयं प्रमोदमानन्दमेति ।
सज्जनास्तुभ्रातुः संरक्षणार्थं रणं विहाय गत इति यथार्थं कथयिष्यन्ति परन्तु
दुर्जना भीतवैवाऽयं पलायित इति मनसि निर्धार्याऽपयशः प्रसार्य प्रमोदमुद्वहिष्य-
न्तीति भावः ।
भाषा
अथवा क्या मैं रणभूमि से भाग चलूँ ? यह मेरी भुजा अपने कुल के
प्राणी का नाश करने में अग्रसर नहीं होती है । परन्तु दुष्ट लोग भय से रण
छोड़कर भाग गया—ऐसा मेरा अपयश फैलाकर आनन्द करेंगे ।
इति गिरमभिधाय निष्कलङ्कां विशदमनाः शनकैर्यशोधनोऽसौ ।
अनुनयवचनानि तस्य पार्श्वे कति न विसर्जयति स्म राजपुत्रः ॥६०॥
अन्वयः
विशदमनाः यशोधनः असौ राजपुत्रः इति निष्कलङ्कां गिरं शनकैः
अभिधाय कति अनुनयवचनानि तस्य पार्श्वे न विसर्जयति स्म ।
व्याख्या
विशदं निर्मलं मनश्चित्तं यस्य स निर्मलचित्तो यश एव कीर्तिरेव धनं वित्तं
यस्य सःकीर्तिवित्तोऽसौ राजपुत्रो विक्रमाङ्कदेव इति पूर्वोक्तां निष्कलङ्कां
कालुष्यरहितां गिरं वाणीं शनकैः शनैरभिधाय व्याहृत्य कति कियन्त्यनुनयस्य
प्रार्थनाया वचनान्युक्तीस्तस्य सोमदेवस्य पार्श्वे सन्निधौ न विसर्जयतिस्म न
प्रेषयतिस्म । किन्तु दूतद्वारा बहुतरं प्रार्थनामकशेरिति भावः ।