सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 350, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 350

( ३४२ )
व्याख्या
अथाऽनन्तरं कन्यायाः स्वात्मजाया अन्तःपुरमवरोधनं 'स्त्रीगारं भूभुजामन्तः-
पुरं स्यादवरोधनम्' इत्यमरः । एव धाम गृहं तस्मिन् कन्यावरोधगृहे धैर्यस्य
गाम्भीर्यस्य निधिराकरस्तेन महार्घपर्वता द्रविड़ेश्वरेण द्रविडाधिपेन वीरराजेन्द्रेण
माधुर्याणां मधुरभावानां धुर्या धोरेया अग्रगण्या इत्यर्थः । 'धूर्वहे धुर्य धोरेय
धुरीणाः सपुरंधराः' इत्यमरः । तंविशेषमधुरैः पदैश्शब्दैरित्यादि पूर्वोक्तमन्यच्च
निविड़प्रेम्णा सान्द्रस्नेहेन मुहुर्वारं वारं व्याहृतः कथितः सः प्रसिद्धः चालुक्यस्य
चालुक्यवंशस्य विद्याधरः श्रेष्ठजनो देवो विक्रमाङ्कदेवः 'नामैकदेशग्रहणे नाम-
ग्रहणमिति' । चोलीनां चोलाङ्गनानां कुटिलासु वक्रासु कुन्तललतादोलासु
केशवल्लीरूपान्दोलिकासु लोलां चञ्चलां दृशं दृष्टिं विनोदयन् व्यापारयन्मुद-
मानन्दमगात्प्राप । शार्दूलविक्रीडितश्छन्दः । सूर्याश्वैर्यदि मः सजौ सततगाः
शार्दूलविक्रीडितम् । रूपकमलङ्कारः ।
भाषा
इसके अनन्तर, कन्या के अन्तः पुर में, अत्यन्त धीर, द्रविड़ देश के राजा,
वीरराजेन्द्र द्वारा, विशेष मधुर शब्दो में वार २ घनिष्ट प्रेम से ऐसी २ बातों
से सम्बोधित उस चालुक्यवंश में श्रेष्ठ, विक्रमाङ्कदेव ने चोलदेश की अङ्गनाओं
के घुंघराले केशलता रूपी झूलों पर अपनी चञ्चल नजर फेरते हुए, आनन्द
प्राप्त किया । अर्थात् हवा से हिलने वाले घुंघराले बालवाली अङ्गनाओं को
देख कर उसे हर्ष हुआ ।
इति श्री त्रिभुवनमल्लदेव-विद्यापति-काश्मीरकमट्ट श्री विल्हण विरचिते
विक्रमाङ्कदेवचरिते महाकाव्ये पञ्चमः सर्ग ।
नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्कालेऽथ दामोदरात्.
भारद्वाजसुधोत्तमात्समुदितः श्री विश्वनाथः सुधीः ।
चक्रे रामकृष्णपण्डितवरात्संप्राप्तसाहाय्यक-
श्लोकायुग्ममिदं स्माफरुणया सर्गे शुभे पञ्चमे ॥
ॐ शान्तिः शान्तिः शान्तिः ।