सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 342, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 342

( ३३४ )
अन्वयः
तत्र दक्षिणतटे कृतस्थितिः कुन्तलेन्दुः तद्वलम् अवलोक्य आहवशहस्र-
दीक्षितं बाहुं वन्दते स्म परिचुम्बति स्म च ।
व्याख्या
तत्र तस्मिन् दक्षिणतटे तुङ्गभद्राया दक्षिणतीरे कृता सम्पादिता स्थिति-
र्निवासो येन सः कुन्तलेन्दुः कुन्तलदेशचन्द्रो विक्रमाङ्कदेवस्तस्य चोलराजस्य बलं
सैन्यमवलोक्य दृष्ट्वाऽऽहवानां युद्धानां सहस्रं तस्मिन् दीक्षितं संजातदीक्षं युद्धसह-
स्रकृतानुभवं बाहुं स्वभुजं वन्दते स्म प्रणमति स्म परिचुम्बति स्म च वदनसंयुक्तं
करोति स्म च । स्वबाहोर्महती श्लाघा कृतेति भावः ।
भाषा
तुङ्गभद्रा नदी के दक्षिण किनारे पर निवास करने वाले कुन्तलेन्दु विक्रमाङ्क-
देव ने चोल देश के राजा की सेना को देखकर हजारो युद्धो का अनुभव
करने वाली अपनी भुजा को प्रणाम किया और चूम लिया । अर्थात् अपनी
भुजा का आदर व प्रेम किया ।
द्राविडोऽपि नृपतिः कुतूहलाद्वीक्ष्य तत्कटकमुकटद्विपम् ।
राज्यमुद्धृतमनर्थपङ्कतः कन्यकावितरणादमन्वत ॥७६॥
अन्वयः
द्राविडः नृपतिः अपि उत्कटद्विपं तत्कटकं कुतूहलात् वीक्ष्य कन्यका-
वितरणात् राज्यम् अनर्थपङ्कतः उद्धृतम् अमन्यत ।
व्याख्या
द्राविडो द्रविडदेशीयो नृपतिश्चोलदेशाधिपो चोलराजेन्द्रनामको भूपतिरप्यु-
त्कटा मदान्धा द्विपा गजा यस्मिंस्तन्मदमत्तगजप्रचुरं तस्य विक्रमाङ्कदेवस्य कटकं
सैन्यं कुतूहलात्कौतुकात् 'कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमरः ।
वीक्ष्यावलोक्य कन्यकायाः स्वात्मजाया वितरणं दानं तस्मात् स्वसुताप्रदानात्
राज्यं स्वचोलराज्यमनयं एवाऽनिष्टमेव पङ्कः कर्दमस्तस्मादनिष्टकर्दमत उद्धृतं
बहिर्निस्सारितममन्यत विज्ञातवान् ।