विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 339, कुल 493 में से
संदर्भ में पढ़ें( ३३१ )
रञ्जितः परिजनोऽस्य शीतल-स्वच्छया सपदि तुङ्गभद्रया ।
आगताः किमपि पृष्ठतस्तु ये पङ्कशेषमलभन्त ते जलम् ॥७४॥
अन्वयः
अस्य परिजनः सपदि शीतलस्वच्छया तुङ्गभद्रया रञ्जितः । ये तु
किम् अपि पृष्ठतः आगताः ते पङ्कशेषं जलम् अलभन्त ।
व्याख्या
अस्य चोलदेशाधिपस्य परिजनोऽनुचरवर्गस्सपदि तत्क्षणं 'सद्यः सपदि तत्क्षणे'
इत्यमरः । शीतला शीता चासौ स्वच्छा निर्मला च तया शीतलनिर्मलाम्बु-
युक्तया तुङ्गभद्रया नद्या रञ्जितः प्रसन्नो जातः । ये तु जनाः किमपि पृष्ठतः
किञ्चित्कालान्तरमागतास्तुङ्गभद्रा प्राप्तास्ते पङ्क एव शेषो यस्मिंस्तत्पङ्कशेषं
कर्दमावशिष्टं जलं सलिलमलभन्त प्राप्तवन्तः । अनेन चोलराजेन सहागतस्य
जनसमूहस्याऽऽधिक्यं सूचितम् ।
भाषा
उस चोल राजा के नौकर चाकर शीघ्र ही ठंडे और निर्मल जल वाली
तुङ्ग भद्रा नदी से प्रसन्न हो गए । अर्थात् तुङ्गभद्रा नदी के शीतल और
निर्मल जल में स्नान आदि कर उस राजा के नौकरों को बहुत आनन्द मिला ।
परन्तु जो लोग कुछ देर करके आए उनको गदला पानी ही मिला । अर्थात्
उस राजा के साथ में अत्यधिक नौकर चाकर आदि आए थे ।
दक्षिणार्णवतटादुपागतैस्तद्गलैः पिशुनतां गतैरिव ।
शीघ्रमक्रियत मध्यवर्त्तिभिः सा प्रतीपगतिरब्धिवल्लभा ॥७५॥
अन्वयः
सा अब्धिवल्लभा दक्षिणार्णवतटात् उपागतैः मध्यवर्त्तिभिः तद्गलैः
पिशुनतां गतैः इव शीघ्रं प्रतीपगतिः अक्रियत ।
व्याख्या
सा प्रसिद्धा अब्धेस्समुद्रस्य वल्लभा प्रिया समुद्रसीमन्तिनी तुङ्गभद्रा नदी
दक्षिणोऽर्णवस्समुद्रस्तस्य तटात्तीरादर्वाचीनसमुद्रकूलादुपागतैस्समागतेर्मध्यवर्त्ति-