विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 337, कुल 493 में से
संदर्भ में पढ़ें( ३२९ )
अन्वयः
चेतसः अपि अलङ्घ्यतां दधतीः अवटस्थलीभुवः लङ्घयद्भिः तस्य
वाजिभिः क्षितिः सर्वतः भ्रान्तवातहरिणा इव अजायत ।
व्याख्या
चेतसोऽपि चित्तस्याऽपि 'चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः ।
अलङ्घ्यतामशक्यत्वां पारं गन्तुमशक्यत्तामित्यर्थः । इपतीरीरयतोऽवटा गर्ताः
'गर्तावटो भुवि श्वभ्रे' इत्यमरः । तेषां स्थलीभुवस्ता गर्तबहुला भूमीर्लङ्घयद्भिः
पारं गच्छद्भिस्तस्य चोलराजस्य वाजिभिरश्वैः क्षितिः पृथ्वी सर्वतः सर्वत्र भ्रान्ता
भयाच्चकिता वातहरिणा वातमृगाः 'वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः'
इत्यमरः । यस्यां सैव निजस्थानपरिभ्रष्ट-भयचकितवातमृगयुक्तेवाऽराजत
शुशुभे । अत्रोत्प्रेक्षालङ्कारः ।
भाषा
मन से भी लांघने की कल्पना न की जाने योग्य ऊबड़ खाबड़ जमीन को
लांघने वाले उस चोलराज के घोड़ों से मानो पृथ्वी चारो ओर घबड़ाए हुए
वातमृगों से युक्त शोभित हो रही थी ।
तेन सैन्यधनुषां शिलीमुख-ज्यालताप्रणयिनां विभूतिभिः ।
तत्र तत्र विजयश्रियः कृते केलिकाननमिव व्यधीयत ॥७२॥
अन्वयः
तेन शिलीमुखज्यालताप्रणयिनां सैन्यधनुषां विभूतिभिः विजयश्रियः
कृते तत्र तत्र केलिकाननम् इव व्यधीयत ।
व्याख्या
तेन चोलराजेन शिली शल्यं मुखेऽग्रे येषा ते शिलीमुखा बाणा भ्रमराइव
'अलिबाणौ शिलीमुखौ' इत्यमरः । ज्यालताश्च मौर्वीरूपलताश्च तासां प्रणयिनः
स्नेहिनः सम्बन्धिनस्तेषां, सैन्यानां चमूनां धनुषि चापाः प्रियालवृक्षाश्च 'धनुः
प्रियाले ना न स्त्री राशिभेदे शरासने' इत्यमरः । तेषां विभूतिभिः समृद्धिभिर्वि-
जयश्रियो विजयलक्ष्म्पाः कृतेऽर्थे तत्र तत्र तत्तत्स्थाने केलिकाननं क्रीडोद्यानमिव
व्यधीयत रचितम् । चोलराजेन बाणज्यालतासम्बन्धिसैन्यचापप्रतापैस्तत्र तत्र